पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू° ३६.] ३५१ सप्तमं काण्डम् | ३७१ हे जातवेदः अन्यान् अस्मत्प्रातिकृत्यकारित्वेन विभिन्नान् सपलान् स- हसा बलेन शीघ्रं वा प्र सहस्व प्रकर्षेण अभिभव । प्रत्यजातान् इति पादो व्याख्यातः । किं च इदम् अनुभूयमानं स्वनिवासाश्रयं राष्ट्रम अस्मदीयं जनपदं सौभगाय सौभाग्याय पिटहि पूरय । यस्मिन् देशे प- रोपद्रवकारी वर्तते स देश: सस्पादिना अभिवृद्धो न भवतीति प्रसि- द्धिः । अतः अत्र राज्यस्य सौभाग्यपूर्ति: मार्थ्यते । किं च विश्वे सर्वे देवाः एनं शत्रुहननकर्मण: प्रयोक्तारम् अनु मदन्तु अनुमोदन्ताम् ॥ तृतीया ॥ इ॒मा यस्तै शतं हि॒राः सहस्रं धमनी॒रुत । तासाः॑ ते॒ सर्वा॑साम॒ह॒मश्म॑ना॒ बिल॒मय॑धाम् ॥ २ ॥ । इ॒माः । याः । ते । श॒तम् । हि॒रा । स॒हस्र॑म् । ध॒मः । उत । तासा॑म् । ते । सर्वा॑सम् । अहम् । अश्म॑ना । बिल॑म् | अपि॑ि | अ॒धाम् ॥ २॥ । हे विद्वेषिणि स्त्रि ते त्वदीया या इमा: शतम् शतसंख्याका हिरा: नाड्य: गर्भधारणार्थम् अन्तरवस्थिताः सूक्ष्मा या नाड्यः सन्ति उत अपि च सहस्रम् सहस्रसंख्याका धमनी: धमन्यः गर्भाशयस्य अवष्टम्भि- का बाह्या: स्थूला या नाड्य: सन्ति ते त्वदीयानां तासां सर्वासां ना- डीनां बिलम् मुखम् अश्मना पाषाणेन अहम् वन्ध्याकरणकर्मप्रयोक्ता अप्यधाम् अपिहितवान् अच्छादितवान् अस्मि । यथा गर्भधारणक्षमा न भवन्ति तथा अकार्षम् । छान्दसो वा लुङ् । अपिदधामि ॥ चतुर्थी ॥ परं योने॒रव॑रं ते कृणोमि मा त्वा॑ प्र॒जाभि भून्मोत सूनुः । अस्वै १ त्वामंजसं कृणोम्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥ ३ ॥ ११ पर॑म् । योने॑ । अव॑रम् । ते । कृणोमि । मा। त्वा॒ा । प्र॒ऽजा । अ॒भि । भूत् । मा । उत । सू॑नु॑ः । १ ABD J C सूर्तु: We with K KRŚV. २ B elenges to अच्बु°. We with A BDR SKV.