पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये पराऽयतः । निवर्तनम् । आऽय॒तः । प्रति॒िऽनन्द॑नम् ॥ १ ॥ 66 प- इदं वशीकरणकारि भेषजम् सौवर्चलाख्यं खनामि उद्धरामि । औष- धं विशिनष्टि । मांपश्यम् । पश्यतीति पश्यः । “पाप्राध्माधेड्- दृश: शः” इति शः । 'शिवात् पात्रा इत्यादिना पश्यादेशः । तत्पुरुषे कृति बहुलम्" इत्यत्र बहुलग्रहणात् मांपश्यम् इत्यत्र द्विती- याया अलुक् । मामेव नारीं पश्यत् ममैवानुकूलम् । यद्वा । श्यतिरन्तणतण्यर्थः ॐ । मामेव असाधारण्येन पत्ये प्रदर्शयत् प- तिवशीकारकम् अभिरोरुदम् पत्युः अन्यनारीसंसर्गम् अभितो निरु- न्धत् । रुधिर् आवरणे । यङन्तात् पचाद्यच् । “यङोचि च” इति यङो लुक् । “न धातुलोप आर्धधातुके” इति लघूपधगुणनिषे- धः । धकारस्य दकारोपजनश्छान्दसः छ । परायतः स्वस्मात् पराड्नु- खं गच्छतः पत्यु: निवर्तनम् निषेधकं पुनरावर्तनकारणम् आयतः मां प्रति आगच्छतः पत्यु: प्रतिनन्दनम् आनन्दकारि । एवंगुणविशिष्टं भेषजं खनामीति संबन्धः । हैं परायत इति । परापूर्वाद् आङ्पूर्वाच्च इण् गतौ इत्यस्मात् शतरि “इणो यण्” इति यण् आदेशः । निवर्तनं प्र तिनन्दनम् इत्यत्र करणे ल्युट् ॥ अष्टमी | 66 ३७४ 66 "" 1 S' ऑप. येना॑ निच॒क्र आ॑सु॒रीन्द्र॑ दे॒वेभ्य॒स्परि॑ । तेना॒ा नि कु॑वें त्वामहं यथा॒ तेसा॑नि॒ सुमि॑या ॥ २ ॥ येन॑ । नि॒ऽच॒त्रे । आ॒सु॒री । इन्द्र॑म् । दे॒वेभ्यः॑ । परि॑ । तेन॑ । नि । कुर्वे । त्वाम् । अहम् । यथा॑ । ते॒ । असा॑नि । सु॒ऽप्रि॒िया ॥ २ ॥ ८८ “मायायाम् आसुरी असुरस्य माया । अण्” इति अण् प्रत्ययः । “ अपपरी व- र्जने” इति परिः कर्मप्रवचनीयः । पञ्चम्यपाङ् परिभिः” इति पञ्च- देवान, वर्जयित्वा इन्द्रं येन भेषजेन निचके युद्धे स्वाधीनं मी ।

  • “असुरस्य स्वम्

देवेभ्यः परि । 66 ""