पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ अथर्वसंहिताभाष्ये 1 मम॑ । इत् । अस॑ः । त्वम् । केव॑लः । न । अ॒न्यासा॑म् | कीर्तयः । चन ॥ ४ ॥ पतिवशीकरणाय ओषधिं संप्रार्थ्य नारी पुनः स्वपतिं ब्रूते । हे पते अहं वदामि त्वं नेत् नैव वदेः । एवं पत्युः सर्वत्र वदननिषेधे प्राप्ते स्था- नान्तरे तस्य वाग्व्यापारं दर्शयति । अहशब्दो विनिग्रहार्थीयः । त्वं तु सभायां विद्वत्समाजे वद । अयम् अर्थ: । हे पते यदा मत्समीपम आगच्छसि तदा अहमेव वदामि त्वं तु मदुक्तमेव अनुवद कदापि प्र- तिकूलं मा वादीः | मध्यतिरिक्तस्थानेपि सभायामेव यथेच्छं वद मान्य- ति । एतद् एव प्रकारान्तरेणाह । यथा हे पते त्वम् । इत् अवधा- रणे । ममैव केवल: असाधारण: असः भवेः । अन्यासां नारीणां ना- मधेयमपि [ न कीर्तया: ] न कीर्तयेः ॥ एकादशी ॥ यदि॒ वाति॑ तिरोज॒नं यदि॑ वा न॒स्ति॒रः । इ॒यं ह॒ मह्यं त्वामोष॑धिर्बुदेव॒ न्यान॑यत् ॥ ५ ॥ यदि॑ । वा॒ । असि॑ । ति॒रः ऽजनम् । यदि । वा । न॑यः । ति॒रः । इ॒यम्। ह॒। मह्य॑म् ।त्वाम् । ओष॑धि । ब॒ड्वाऽइ॑व । नि॒ऽआन॑यत् ॥ ५ ॥ क्रियाविशेषणम् एतत् । हे पते यदि तिरोचनम् । ति- र: तिरोभूतम् अचनं गमनं यस्मिन् कर्मणि तत् तिरोचनम् । तिरोभूत- गति: मञ्चक्षुर्विषयो न भवे: । वाशब्दो विकल्पे | यदि वा नद्यः नि- म्नगास्तिरः आवयोर्व्यवधायिका भवेयुः । ह । तथापीत्यर्थः । इयं प्र- स्तुता ओषधिः शङ्खपुष्प्याख्या मह्यं पतिप्रीतिकामिन्यै त्वां पतिं बड्डेव निगृह्येव न्यानयत् नितराम् अभिमुखं नयतु । नयतेर्लेटि अडा- गमः ॐ ॥ तृतीयं सूक्तम् ॥ [ इति ] सप्तमे काण्डे तृतीयोनुवाकः ॥ १ PJ नद्यः. We with PCr.