पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये 66 सांमनस्यकर्मणि "उभा जिग्यथु: " इत्यनया हत्यादियानं संपात्य अ- भिमन्त्र्य सांमनस्यकामान् आरोप्य सूत्रोक्तप्रकारेण स्वगृहम आगत्य ओ- दनं मन्यं वा संपात्य अभिमन्य सह भोजयेत् । सूत्रितं हि । 'भा जिग्यथुरित्यार्द्रपादाभ्यां सांमनस्यम् | यानेन प्रत्यञ्चो ग्रामान् प्र- 'तिपाद्य प्रयच्छति" इति [ कौ० ५, ६ ] ॥ तथा उक्थ्ये अच्छावाकयाज्याहोमानुमन्त्रणम् अनया ब्रह्मा कुर्यात् । " एतेषां याज्याहोमान इन्द्रावरुणा सुतपौ[ ७.६०] बृहस्पतिर्नः [७. ५३] उभा जिग्यथुः ” [७.४५] इति हि वैतानं सूत्रम् [वै०४.१] ॥ ईर्ष्याविनाशार्थ “ जनाद् विश्वजनीनात्" इत्येनाम् ईर्ष्यालुं पश्यन् जपेत् ॥ " 66 ३७७ तथा तत्रैव कर्मणि अनया सक्तुमन्थम् अभिमन्त्र्य ईर्ष्यावते दद्यात् || तथा तस्मिन्नेव कर्मणि ईर्ष्यावन्तं स्पृशन् एनाम् ऋचं जपेत् ॥ सूत्रितं हि । “ ईर्ष्याया प्राजिम [ ६. १६] जनाद् विश्वजनीनात् [७. ४६] त्वाष्ट्रेणाहम् [७.७६.३] इति प्रतिजापप्रदानाभिमर्शनानि ” इति [ कौ० ४.१२ ] ॥ " तत्र प्रथमा ॥ दि॒व्यं सु॑प॒र्ण प॑य॒सं बृ॒हन्त॑म॒पां गर्म॑ वृष॒भमोष॑धीनाम् । अभीपतो वृष्ट्या तर्पय॑न्त॒मा नो॑नो॒ गोष्ठे र॑यि॒ष्ठां स्था॑पयाति ॥ १ ॥ दि॒व्यम् । सु॒ऽप॒र्णम् । प॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्म॑म् । वृष॒भम् । ओष॑धीनाम् । अ॒भी॒प॒तः । वृ॒ष्ट्या । त॒र्पय॑न्तम् । आ । नः॒ । जो॒ऽस्थे । र॒यि॒ऽस्थाम् । स्या॒- पयाति ॥ १ ॥ दिव्यम् दिवम् अर्हतीति दिव्यः । “छन्दसि च” इति यः ॐ । तं सुपर्णम् शोभनपतनं पयसम् पयस्वन्तम् । पर्य:शब्दात् मर्तुपो 1 S' मंत्र्याभिमंत्र्य. 2S' प्रत्यंचात् ग्रामात्. We with Kausiku. S' पयःशब्दादुर्म- नस्यमतुपो.