पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ४२.]३५७ सप्तमं काण्डम् | ३७१ नृचक्षा : नॄणां द्रष्टा सर्वकर्मसाक्षी सर्वैः प्राणिभिर्द्रष्टव्यो वा । तदेवा- ह । अवसानदर्श: अवसाने अन्तभूते धुलोके द्रष्टव्यः । अथ वा अव- सीयते निश्चीयत इति अवसानं कर्मफलं तद् दर्शयतीति अवसानदर्शः । ताहश: श्येनः शंसनीयगतिः सूर्य धन्वानि मरुदेशान् अति अतिक्र म्य अपः उदकानि अति ततर्द । अतिशयेन करोत्वित्यर्थः । तृदिर् हिंसानादरयोः । निरुदकप्रदेशेषि यथा वृष्टिर्भवति तथा प्रभूतं वर्षविति यावत् । किं च अवरा अवराणि धुलोकाद् अधस्त- नानि विश्वानि रजांसि लोकान् तरन् अवतरन् अतिक्रामन् श्येनः स.. ख्या समानख्यानेन मित्रभूतेन इन्द्रेण । सहयोगाभावेपि तृती- या । तेन सह शिवः कल्याणकारी सन् आ जगम्यात् नवगृह- निर्माणस्थानम् आगच्छतु ॥ पञ्चमी ॥ श्ये॒नो नृ॒चषा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः । स नो॒ नि य॑च्छ्राद् वसु॒ यत् परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥ २ ॥ श्ये॒नः । नृ॒ऽच । दि॒व्यः । सु॒ऽप॒र्णः । स॒हस्र॑ऽपात् । श॒तयो॑नि । व॒- यःऽधाः । स । नः॒ । नि । य॒च्छ॒त् । वसु॑ । यत् । परा॑ऽभृतम् । अ॒स्माक॑म् । अ॒स्तु । पि॒तृषु॑ | स्व॒धाऽव॑त् ॥ २ ॥ नृचक्षाः नॄणां द्रष्टा दिव्यः दिवि भवः सुपर्ण: सुपतनः सहस्रपात् सहस्रकिरणः । पादस्य लोपः समासान्तः । शतयोनि: श- तस्य अपरिमितस्य कार्यस्य कारणभूतः अपरिमितफलस्य मिश्रति वा । अथ वा शतसंख्याकानि योनयः कारणानि प्रतिपदार्थ भिन्नानि असा- धारणानि यस्येति । वयोधाः अन्नस्य धारयिता दाता स तादृश: श्ये- नः सूर्यः नः अस्मान् नि यच्छात् नियच्छतु । चिरकालं स्थापयविन्य- र्थः । अपि च यद् वसुं धनं पराभृतम् अन्यैश्योरादिभिः पराहृतम् 1S' वस्तु for वसु. The text too in S appears to read वस्तु lor चसु.