पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ अथर्वसंहिताभाष्ये अपहृतम् अस्ति अथ वा यद् वसुं पुरोडाशशकलरूपं पराभृतम् प- राचीनेन पाणिना आहृतं प्रक्षिप्तं तद् वसु॑ अस्माकं पितृषु स्वधावत् स्वधाकारेण हुतम अस्तु ॥ सोमा॑रु॒द्रा वि वृ॑ह॒तं॒ विषूच॒ममी॑वा॒ा या नो॒ गय॑मावि॒वेश॑ । बाधेयां दूरं निरृतिं परा॒चैः कृतं चिदेन: प्रमु॑मुक्तम॒स्मत् ॥ १ ॥ सोमा॑रु॒द्रा । वि । बृ॒ह॒त॒म् । विषूचीम् । अमी॑वा॒ा । या । नः॒ । गय॑म् । । आऽविवेश । “बाधैथाम् । दू॒रम् । निःऽऋ॒तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एन॑ः । प्र । मुमुक्तम् । अ॒स्मत् ॥ १॥ हे सोमारुद्रा । सुप आकार: ४। हे सोमारुद्रौ विषूचीम विष्वग्गमनां वक्ष्यमाणम अमीवाशब्दवाच्यं रोगं वि वृहतम् विनाशय- तम् । वृहूँ उद्यमने । तौदादिकः ४ । या अमीवा रोगः नः अस्माकं गयम् गृहं शरीरं वा आविवेश सर्वतो व्याप्ता । तां वि वृहतम् इति संबन्धः ॥ किं च निरृतिम निकृष्टगमनहेतुं रोगनिदानभूतां पिशाचीं पराचैः पराङ्मुखं दूरं बाधेथाम् । यथा पुनरस्मान् नागच्छति तथा पराङ्मुखं दूरं गमयित्वा नाशयतम् । पराचैरिति । निपातो- यम् उच्चैनीचैरितिवत् ॐ । किं च । चिच्छब्दः चेदर्थे । एन: अ- स्माभिः कृतं चेत् । अप्यर्थे वा चिच्छन्दः । कृतमपि एनः पापम् अस्मत् अस्मत्तः । *X पञ्चमीबहुवचने “पञ्चम्या अत्” ॐ । प्र मुसु- क्तम् प्रकर्षेण मोचयतम् । हुमुञ्चदे: शप: शु: है ॥ सप्तमी ॥ सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद् विश्वा॑ त॒नूषु॑ भेष॒ज्ञानि॑ धत्तम् । अव॑ स्यतं मुञ्चतं॒ यन्तो॒ अस॑त् त॒नूषु॑ व॒धं कृ॒तमेनो॑ अ॒स्मत् ॥ २ ॥ १ P अस्मात्. 1 See note 1 on the previous page. 28 पराचीने 3S' वृहु.