पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° ४४.]३५९ सप्तमं काण्डम् | ३८३ सोमा॑रुद्रा । युवम । ए॒तानि॑ । अ॒स्मत् । विश्वा॑ । त॒नू॒र्षु । भेष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मुञ्चत॑म् । यत् । नः॒ । अस॑त् । त॒नूषु॑ । ब॒द्धम् । कृतम । एन॑ः । अस्मत् ॥ २ ॥ 2 षष्ठ्याः हे सोमारुद्रा हे सोमारुद्रौ युवम् युवाम् अस्मत् । " सुपां सुलक्॰" इति लुक् । व्यत्ययो वा विभक्तेः । अस्मत् अस्माकं तनूषु शरीरेषु विश्वा सर्वाणि एतानि रोगनिर्हरणक्षमत्वेन प्रसि- द्धानि भेषजानि धत्तम् स्थापयतम् । किं च नः अस्माकं तनूषु बद्धम् संबद्धं यत् अस्माभिः कृतम् एनः पापम् असत् स्यात् अस्ति वा तद् अस्मत् अस्मन्सकाशाद् मुञ्चतम् मोचयतं विश्लेषयतम् । ततो मुक्का तद् षो अन्तकर्मणि । लोटि अव स्थतम् अवसाययतं विनाशयतम् । रूपम् ॥ अष्टमी | शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमन॒स्यमा॑नः । ति॒स्रो वाच॒ो निहि॑ता अ॒न्तर॒स्मिन् तासामेका वि प॑पा॒तानु॒ घोष॑म् ॥१॥ शि॒वाः । ते॒ । एकः । अशवाः । ते॒ । एकः । सर्वाः । वि॒भष॒ । सु॒ऽम॒न॒- स्यमा॑नः । 1 ति॒स्रः । वाच॑ः । निऽर्हः । अन्तः । अ॒स्मिन् । तासा॑म् । एक । वि। प॒ा । अनु॑ । घोष॑म् ॥ १ ॥ सर्वा हि वाक् परापश्यन्ती मध्यमावैखरीरूपचतुरवस्थापन्ना । तत्र प राद्यास्तिस्रोवस्था देहान्तरवस्थानाद् न परेभ्योर्थं प्रतिपादयितुं क्षमाः । वैखरी तु ताल्वोष्ठादिस्यानेषु वर्णपदवाक्यरूपेण अभिव्यज्यमाना परश्रो- त्रग्रहणयोग्या भवति । एवं पराद्यवस्थापन्ना वाक् स्तुतिरूपा निन्दारू- पा चेति द्विविधा भवति । तथा च अस्या ऋचः अयम् अर्थः 1 ते इति युष्मच्छन्देन विभषति मध्यमपुरुषेण च मिथ्याभिशस्त: पुरुषोऽभि- धीयते । हे अकारणं निन्दित पुरुष ते तव विषये शिवाः स्तुतिरूपा: