पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ अथर्वसंहिताभाष्ये कल्याण्य: एका: अन्या वाचः सन्ति । तथा ते तक विषये अशिवाः अस्तुतिरूपा निन्दार्था एका: अन्या वाचः सन्ति । सर्वास्ता उभयीर्वा- चः त्वं सुमनस्यमानः । सुमना इवाचरन् । आचारार्थे "कर्तुः क्यङ्ग्” । स्तुतिवाक्यश्रवणे यथा सुमनस्कत्वं प्राप्नोषि एवं नि न्दावाक्य श्रवणेपि सौमनस्यं प्राप्नुवन् बिभर्षि विभूहि । लट् । लोड स्तुतिनिन्दाजातहर्षविषादयोरपि समानं सौमनस्यं प्राप्नुही- त्यर्थः । अथ वाचः पराद्यवस्थाचतुष्टयात्मकत्वेपि प्रथमावस्थात्रयरूपाया बाचो नार्थप्रत्यायकत्वं तुरीयावस्थापन्नायास्तु अर्थबोधकत्वम् इति उत्तरा- नाह | तासां पूर्वोक्तानां द्वितयीनां वाचां मध्ये तिस्रो वाचः पराद्याः अस्मिन् शब्दप्रयोक्तरि पुरुषे अन्तः देहमध्ये निहिताः अवस्थिता भव- न्ति । एका वैखरीरूपा घोषम् अनु ताल्वोष्ठव्यापारजन्यं ध्वनिम् अनु- विशेषेण वर्णपदादिरूपेण वर्तते । यद्वा पूर्वार्धेन नि- न्दावाक्यस्य स्तुतिवाक्यसमानताप्रतिपत्तिम् आपाद्य निन्दावाक्यप्रयोगेपि प्रयोक्तुरेव महती बाधा नाभियुज्यमानस्य बाधेत्याह । तासाम् अशि- वानां निन्दारूपाणां वाचां मध्ये तिस्रो वाचः पराद्याः अस्मिन् मि- थ्यापवदितरि जने अन्तर्निहिताः । एका वाक् वैखरी घोषम् जनसंघ- ध्वनिम् अनुलक्ष्य वि पपात निन्दावेन विरुद्धा पतिता । अयम् अर्थः । निन्दावाक्यस्यापि परादिचतुष्टयात्मकत्वात् तादृशवाक्यप्रयोक्तशरीरमध्ये त्र- याणां भागानाम् अवस्थानात तस्मिन्नेव निन्दा महती | मिथ्याभियुज्य माने तु एक एव भागः पतित इति नास्ति निन्देति ॥ नवमी ॥ उ॒भा जिंग्यथुर्न परा॑ जयेथे न प जिग्ये कत॒रश्चनैन॑योः । इन्द्र॑श्च॑ विष्णो॒णो॒ यदप॑स्पृधेया॑ त्रेधा स॒हस्रं वि तदैरयेथाम् ॥ १ ॥ उभा । जिग्यथुः । न । परा॑ । जा॑ये॒थो॒ इति॑ । न । परा॑ | जिग्ये | कतरः । चन । एनयोः । 1 १ BDKK SVC इंद्रश्च विष्णो. We willh A BRPPJCr. 1S द्वितीयानां.