पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ४६.]३६१ सप्तमं काण्डम् । ३६५ • इन्द्र॑ । च॒ । वि॒ष्ण॒णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐरयेथाम् ॥ १॥ 66 "9 हे इन्द्राविष्णू उभा उभौ युवां जिग्यथुः सर्वदा जयथ एव । छा- 'सन्लिटोजें: ' न्दसो लिट् । इति कुत्वम् । न कदाचिदपि परा जयेथे । अन्यैर्न जीयेथे इत्यर्थः । “विपराभ्यां जेः” इति आत्मनेपदम् । किम् एतौ परस्परसाहाय्याज्जेतारौ अपराजितौ च । नेत्याह । एनयोः इन्द्राविष्णवोर्युवयोर्मध्ये कतरश्चन एकोपि । "किं- यत्तदो निर्धारणे द्वयोरेकस्य डतरच्” । न परा जिग्ये नान्यैः पराजितो भवति ॥ हे विष्णो इन्द्रश्च त्वं च युवां यद् वस्तु प्रति अ पस्पृधेयाम अस्पर्धेथाम् असुरैः सह । 2. “अपस्पृधेथाम् आनृचु:०" तद् वस्तु इति स्पर्धतेर्लङि द्विर्वचनं संप्रसारणं च निपात्यते । त्रेधा त्रिधा लोकवेदवागात्मना स्थितं सहस्रम् अपरिमितं तद् वस्तु व्यै- रयेथाम् । व्यक्रमेथाम् इत्यर्थः । विक्रमणं च वैष्णवमपि ऐकात्म्याद् उभयोरित्युच्यते । अत्र ऐतरेयब्राह्मणम् । “उभा जिग्यधुरित्युभौ हि तो जिग्यतुः” इत्यादि “इन्द्रश्च ह वै विष्णुश्वासुरैर्युयुधा । तान् ह स्म 'जित्वोचतुः कल्पामहा इति । ते ह तथेत्यसुरा ऊचुः । सोब्रवीद् इन्द्रो ' यावद् एवायं विष्णुस्त्रिर्विक्रमते तावद् अस्माकम् अथ युष्माकम् इतरद् इति । स इमालोकान् विचक्रमेथो वेदान अथोवाचम् । तदाहुः किं 'तत् सहस्रम् इतीमे लोका इमे वेदा अथो वाग् इति ब्रूयात्" इत्य- न्तम् अनुसंधेयम् [ ऐ॰ब्रा॰ ६.१५] ॥ । 66 66 दशमी ॥ जना॑द् विश्वज॒नीन, सिन्धुतस्पर्याभृ॑तम् । दूरात त्वा॑ मन्य॒ उद्धृतमीर्ष्याया॒ नाम॑ भेष॒जम् ॥ १ ॥ जना॑त् । वि॒श्व॒ऽज॒बना॑त् । स॒न्धु॒तः । परि॑ । आऽभृ॑तम् । दूरात् । वा । म॒न्ये॒ । उत्ऽभृ॑तम् । ई॒र्ष्याया॑ः । नाम॑ । भेष॒जम् ॥ १ ॥ दुरावा. १ PJ अर्पऽस्पृ. We with PCr. २