पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ अथर्वसंहिताभाष्ये अत्र ईर्ष्यानिवर्तनक्षमम् औषधं संबोध्यते ॥ विश्वजनीनात् विश्वजन- हितात् । “आत्मन्विश्वजनभोगोत्तरपदात् खः" इति खः । ता- हशात् जनात् । जनपदाद् इत्यर्थः । एकदेशेन व्यपदेशो भीमसेनो भी- म इतिवत् । तथा सिन्धुतः समुद्रात् । परिः पञ्चम्यर्थानुवा- दी । आभृतम् आहृतम् । हु“हृग्रहोर्भः” । दूरात दूरदेशाद् उद्धृतम् उद्धृतं वा त्वां सक्नुमन्थलक्षणम् औषधम् ई- र्ष्यायाः क्रोधस्य नाम खलु भेषजम् निवर्तनक्षमम् औषधं मन्ये जा- मन ज्ञाने । दिवादित्वात् श्यन् । लटि उत्तमैकवचने तथा नामि । रूपम् ॥ [ इति ] चतुर्थेनुवाके प्रथमं सूक्तम् । ईर्ष्याविनाशकर्मणि तप्तपरशुना काथितम् उदकम् 'अग्नेरिवास्य दह- तः इत्यनया अभिमन्त्र्य ईर्ष्यालुं पाययेत् । “अमेरिवेति परशुफा- ण्टम्” इति [ कौ० ४.१२] सूत्रात् ॥ सर्वव्याधिभैषज्यार्थ व्याधितशरीरं मौजैः पाशै: पर्वसु बड्डा “सिनी- वालि ” इति नवर्चेन शरपिञ्जलीभिः सह उदकघटं संपात्य अभिमन्य व्याधितम आसावयेत् अवसिञ्चेद् वा । तद् उक्तं संहिताविधौ । “सो- 'मारुद्रा [ ७.४३] सिनीवालि [ ७.४७] वि ते मुञ्चामि [ ७.८३] शुम्भ- “नी [७.११७] इति मौजै: पर्वसु बड्डा पिञ्जलीभिरासावयत्यवसिञ्चति ” इति [ कौ॰४.४] ॥ ९ ८८ " 66 अग्नाविष्णू [ ७. तथा सर्वसंपत्कामः अनेन नवर्चेन यथालिङ्गं सिनीवाली कुहू राका देवपत्न्य इति चतस्रो देवता यजेत उपतिष्ठेत वा । ३०] सोमारुद्रा [ ७.४३] सिनीवालि पृ॑थुटुके [७.४७] बृहस्पतिर्नः [७. ५३ ] इति कौशिकं सूत्रम [ कौ०७.१०] ॥ "" 66 "" तथा दर्शयागे 'सिनीवालि इति तृचेन सिनीवालीदेवतां परिगृ- ह्रीयात् । [तद् उक्तं वैताने] | "देवताः परिगृहलति । सिनीवालि पृथु - टुक इति मन्त्रोक्ताम अमावास्यायाम्” इति [ वै० १.१] ॥ दर्शयाग एव " कुहूं देवीम्” इति द्व्यचेन कुहूं देवीं परिगृह्णीयात् ॥