पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० अथर्वसंहिताभाष्ये सा । नः । र॒यिम् । वि॒श्वऽवा॑रम् । नि । य॒च्छा॒त् । ददा॑तु । वी॒रम् । श॒- तऽदा॑यम् । उ॒क्थ्या॑म् ॥ १॥ Z कुहूशब्दं बहुधा सती हूयत इति वा ताहशीं कुहूम अ- नष्टचन्द्रा अमावास्या कुहू: । तां देवीम् । यास्को निरुवाच । कुहूर्गृहतेः क्काभूद् इति वा क काहुतं हविर्जुहोतीति वेति [नि०११.३२]४ । स्मिन् यज्ञे दर्शयागे सर्वाभिलषितसाधने कर्मणि च जोहवीमि भृशम् आह्वयामि । ह्वयतेरिदं रूपं जुहोतेर्वा । हविषा यजामि । तां वि- शिनष्टि । सुकृतम सुकर्माणं विद्मनापसम् । अप इति कर्मनाम | वि दिनकर्माणम् । विदेः औणादिको मक् प्रत्ययः । [विझो वेद- नम् । ] तद्वत् विद्मनम् । पामादिलक्षणो नप्रत्ययः । तादृशम अपः कर्म यस्या इति विग्रहः ॐ । सुहवाम् शोभनाह्वानाम् । सा कु- हू: विश्ववारम् सर्वैर्वरणीयं रयिम् धनं नः अस्मभ्यं नि यच्छात् नि- यमयतु स्थापयतु । प्रयच्छवित्यर्थः । तथा शतदायम् बहुधनं बहुमदं वा उक्थ्यम प्रशस्यं स्तोत्रा वा वीरम् विक्रान्तं पुत्रं ददातु प्रयच्छतु ॥ षष्ठी ॥ कुहूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॑ ह॒व्या॑ नो अस्य ह॒विषो॑ जुषेत । शृ॒णोतु॑ य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोष॑ चिके॒तुष दधातु ॥ २ ॥ कुहू | दे॒वाना॑म् । अ॒मृत॑स्य । पत्नी॑ । ह॒व्या॑ । नः॒ । अ॒स्य॒ । ह॒विषि॑ । जुषत् । शृ॒णोतु॑ । य॒ज्ञम् । उ॒श॒ती । नः । अद्य | रा॒यः । पोष॑म् । च॒के॒तुष । धातु ॥ २ ॥ देवानाम् । निर्धारणे षष्ठी । देवानां मध्ये कुहूदेवी अमृतस्य अमृतत्वस्य अविनाशस्य उदकस्य वा पत्नी पालयित्री । यद्वा देवानां मध्ये यः अमृतः अविनश्वरो देवस्तस्य पत्नी नारी । अथवा दे- वानाम् इति सर्वविकारोपलक्षणम् । सर्वेषां भूतानाम अमृतस्य च ष- १P वि॒श्वरम् fict