पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ अथर्वसंहिताभाष्ये 'शिवेधि | पुमांसोस्य पुत्रा जायन्ते” इति ऐतरेयश्रुतेः [ ऐ० ब्रा० ३. ३७] । तथा च कृत्वा वीरम् विक्रान्तं पुत्रं शतदायम् बहुधनं ब- हुप्रदं वा उक्थ्यम् कर्मभिः स्तोत्राई ददातु प्रयच्छतु ॥ अष्टमी | यस्तै राके सुम॒तय॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑नो॑ अ॒द्य सु॒मना॑ उ॒पाम॑हि सहस्रपो॒ोषं सु॑भगे ररा॑णा ॥ २ ॥ या । ते॒ । राके॒ । सु॒ऽम॒तय॑ः । सु॒ऽपेश॑सः । याभि॑ । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभि॑ । नः॒ । अ॒द्य । सु॒ऽमना॑ । उप॒ऽआग॑हि । स॒ह॒स्रुऽपोषम् । सु॒ऽभगे। ररा॑णा ॥ २ ॥ हे राके देवि यास्ते तव सुमतयः कल्याणबुद्धयः अनुग्रहात्मिका: सु- पेशस: सुरूपा: शोभनविषया वा यास्ते सुष्टुतयः सुरूपा इति वा याभिः सुमतिभि: दाशुषे हविर्दत्तवते यजमानाय वसूनि धनानि ददासि प्रय- च्छसि ताभिः सुमतिभिरुपलक्षिता तथाभूतसंकल्पा नः अस्मान् अद्य इदानीं सुमना भूत्वा उपागहि उपागच्छ । X गमेः शपो लुकि मलोपः । तस्यासिद्धत्वेन हेर्लुगभावः & । किं कुर्वती । हे सुभगे शोभनसौभाग्ये कल्याणधनप्रापिणि वा राके सहस्रपोषम् बहूनां धनानां पोषं पुष्टिं रराणा प्रयच्छन्ती उपागच्छेति । रातेर्व्यत्ययेन आत्म- नेपदम् । शप: श्रुः ॥ नवमी ॥ दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ दे॒वीः सु॒हवा॒ाः शर्म॑ यच्छन्तु ॥ १ ॥ दे॒वाना॑म् । पत्नी॑ । उ॒श॒तीः । अवन्तु । नः । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये । १ DK S सहस्रपापं. We with ABBKRVC. २P ददा॑ति.