पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ अथर्वसंहिताभाष्ये शृणोतु । अस्मदीयं हव्यं व्यन्तु अश्वन्तु कामयन्ता वा हवींषि देवीदें- व्यः । कस्मिन् काले हविःकामनं तम् आह । यः जनीनां जायानाम् ऋतु: कालस्तस्मिन् । पत्नीसंयाजकाल इत्यर्थः । अत्र 'अपि च 56 झा व्यन्तु देवपत्न्यः इन्द्राणीन्द्रस्य पत्नी । अनाय्यः पत्नी | अश्वि- न्यश्विनो: पत्नी | राट् राजते: । रोदसी रुद्रस्य पत्नी । वरुणानी " [च] वरुणस्य पत्नी । व्यन्तु देव्यः कामयन्ताम् । य ऋतुः कालो जा- यानाम् " " इति निरुक्तम् अनुसंधेयम् [नि० १२.४६]४ ॥ 66 [ इति ] चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ ● द्यूतजयकर्मणि स्थलशुद्धिम् अक्षांधिवासनं च कृत्वा “यथा वृक्षम् अ- इति नवचेंन अक्षान् अभिमन्य द्यूतं कुर्यात् । सूत्रितं हि । 'पूर्वास्वषाढासु गर्ने खनति । उत्तरासु संभिनति । आदेवनं संस्तीर्य । 'उद्भिन्दतीं संजयन्तीम [ ४.३८] यथा वृक्षम् अशनि: [७ ५२ ] इदम् उग्राय [७. ११४] इति वासितान् अक्षान् निवपति" इति [ कौ° ५.५] ॥ सर्वफलकाम: "बृहस्पतिर्नः” इति ऋचा बृहस्पतिं यजेत उपतिष्ठेत वा । बृहस्पतिर्नः [ ७, ५३] यत् ते देवा: ” [७.६४] इति हि सू- त्रम् [कौ० ७.१०] ॥ शनिः 66 ८८ 66 तथा उक्थ्यऋतौ ब्राह्मणाच्छंसिनो याज्याहोमम् अनया ब्रह्मा अनुमन्त्र- येत । उक्तं वैताने । एतेषां याज्याहोमान् इन्द्रावरुणा सुतपौ [७. ५६] बृहस्पतिर्नः [७. ५३] उभा जिग्यपुः ” [७.४५] इति [वै०४.१] ॥ (6 तथा ग्रहयज्ञे अनया हविराज्यहोमसमिदाधानोपस्थानानि बृहस्पतये कुर्यात् । तद् उक्तं शान्तिकल्पे । 'भद्रादधि श्रेयः प्रेहि [७.९] बृ- हस्पतिर्नः [७. ५३] इति बृहस्पतये” इति [ शा० क° १५ ] ॥ 66 तथा बार्हस्पत्यां राज्यश्रीब्रह्मवर्चसकामस्य " [ न० क° १७] इति वि हितायां बार्हस्पत्याख्यायां महाशान्तौ बृहस्पतिर्नः इत्येनाम् आवपेत् । उ- क्तं नक्षत्रकल्पे । “बृहस्पतिर्नः परिपातु पश्चात् [ ७. ५३] अमुत्र भूयात् [७.५५] इति बार्हस्पत्यायाम्" इति [ न॰ क°१७] ॥ 1 S' 'ज' clhanged to °क्ष. 2S अजाधि. 3S' अजानू.