पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ अथर्वसंहिताभाष्ये प्रोपेण प्रतिवादिनं जेष्यामि अहमेवेति अहमहमिकया त्वरमाणास्तुराः । विमृश्यकारिण्य: अतुराः । तासाम् अवर्जुषीणाम् अवर्जनशीलानां प्र- तिकितवैः पराजयेपि पुनरहमेव जेष्यामीति द्यूतक्रियाम अपरित्यजन्तीनां पुन:पुनर्जयलाभाद् अवर्जयन्तीनां वा । सर्वदा द्यूतव्यसनवतीनाम् इत्य- र्थः । विशाम प्रजानां भगः भाग्यम् जयलक्षणं विश्वतः सर्वतः समैतु सम्यग् अभिमुखम् आगच्छतु । द्यूतजयकामिनं माम् इति शेषः केवलं तत एव जयप्रार्थना अपि तु मम अन्तर्हस्तम् हस्तमध्ये कृतम् । कृतशब्दवाच्यश्चतुःसंख्यायुक्त: अक्षविषयः अयः । स हस्तमध्ये स्थितो वर्तते । एकादयः पञ्चसंख्यान्ता अक्षविषया अयाः । तत्र चतुर्णां कृतम् इति संज्ञा । तथा च तैत्तिरीयकम् । “ये वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः सः इति [तै ब्रा० १. ५.११.१] ॥ त- त्र कृतस्य लाभाद् द्यूतजयों भवति । अत एव दाशतयां लब्धकृता- यात कितवाद् भीतिराम्नायते । “चतुरश्चिद् ददमानाद् बिभीयाद् आ इति [ ऋ० १.४१.९] । तत्र निरुक्तम् । चनुरोक्षान् धा- रयत इति तद् यथा कितवाद् विभीयाद् इति [नि०३.१६] ॥ तृतीया || ० निधातोः "9 o ईर्डे अ॒ग्निं स्वाव॑सुं नमो॑भिरि॒ह म॑स॒क्तो वि च॑यत् कृतं न॑ः । रथैरिव म भ॑रे वा॒जय॑द्भिः प्रदक्षिणं म॒रुतां स्तोम॑मृध्याम् ॥ ३ ॥ ई॒र्डे । अ॒ग्निम् । स्वऽव॑सु॒म् । नम॑ऽभिः । इ॒ह । प्र॒ऽस॒क्तः । वि । च॒यत् । कृतम् । नः । रथैःऽइव । प्र । भरे । वा॒जय॑ऽभि । ज॒ऽद॒क्षिणम् । म॒रुता॑म् । स्तोम॑म् । ॠध्याम् ॥ ३ ॥ स्ववसुम् स्वकीयधनं स्वकीयेभ्यः स्तोतृभ्यो दीयमानं धनं यस्य तम् अनं नमोभिः स्तोत्रै: ईळे स्तौमि । इह द्यूतकर्मणि प्रसक्तः प्रकर्षेण आसक्तोनि: देवनकर्माधिपतिः नः अस्माकं दीव्यतां कृतम कृतशब्दवाच्यं लाभहेतुम् अयं वि चयत् विचिनोतु । करोत्वित्यर्थः ।

  • चिनोते-