पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ५२.]३६७ सप्तमं काण्डम् | ३९९ हन्ता कितवः काले द्यूतकाले कृतमिव | इवशब्द एवार्थे । कृतशब्दवाच्यं लाभहेतुम् अयमेव वि चिनोति मृगयते । हस्तस्थेष्वक्षेषु प्रागेव निधानात् कृतत्वम् अक्षाणां लाभाये अन्विष्यते अतो जयाँतीति संबन्धः ॥ यो देवकाम: देवान् कामयमानः दीव्यन् पुरुष: धनं न रुणडि द्यूतलव्धं धनं न व्यर्थ स्थापयति किं तु देवतार्थं विनियु तं राय धनेन स्व- धाभिः अन्नैर्बलैर्वा सं सृजत्येव संयोजयत्येव । इन्द्र इति देवता गम्य- ते । इत् अवधारणे ॥ सप्तमी ॥ गोभि॑ष्टरे॒माम॑ति॑ दु॒रेव॒ यवे॑न वा॒ दा॒धं पुरुहूत॒ विश्वे॑ । व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ॥ ७ ॥ गोभिः । त॒रेम॒ । अम॑तिम् । दु॒ऽए॒वा॑म् । यवे॑ वा॒ । क्षुध॑म् । पुरु॒ऽहूत। विश्वे॑ । 1 व॒यम् । राज॑ऽसु । प्र॒थ॒माः । धना॑नि । अरि॑ष्टासः । वृज॒नीभि॑ः । ज॒ये॒म॒ ॥ ७ ॥ । हे इन्द्र दुरेवाम दुष्टगमनां दारिद्याद् आगताम् अमतिम दुर्बुद्धिं गोभिः पशुभिः तरेम । हे पुरुहूत बहुभिराहूत इन्द्र विश्वे सर्वे वयं यवेन वा । यवशब्दो धान्योपलक्षणम् । धान्येन वा क्षुधम् बुभुक्षां त- रेम निवारयेम | राजसु नृपेषु राजमानेषु दीव्यत्सु वा पुरुषेषु । स्थि- तानीति शेषः । प्रथम प्रथमानि मुख्यानि प्रकृष्टतमानि धनानि वयम् अरिष्टास: अहिंसिताः प्रांतंकितवैरपराजिताः सन्तः वृजनीभिः बलका- रिणीभिरक्षशलाकाभि: जयेम साधयेम ॥ अष्टमी | कृ॒तं मे॒ दक्षि॑णे॒ हस्ते्॑यो मे॑ स॒व्य आहि॑तः । गोजिद् भू॑यासमव॒जिद् ध॑न॑ज॒यो ह॑रण्य॒जित् ॥ ८ ॥ कृ॒तम् । मे॒ । दक्षि॑णे । हस्ते॑ । ज॒यः । मे॒ । स॒व्ये । आऽर्हितः । गोऽजित् । भूयासम् । अ॒श्वजित् । धनमऽजयः । हिर॒ण्य॒ऽजित् ॥ ७ ॥ 1 S' अक्षांनृणांलाभाय. The emendation is comjeetural. .