पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० अथर्वसंहिताभाष्ये मे मम दक्षिणे हस्ते पाणौ कृतम् कृतशब्दवाच्यो लाभहेतुः अयः अस्ति । कृतायलाभो हि महान् द्यूतजयः । तद् उक्तं द्यूतक्रियाम अधिकृत्य आपस्तम्बेन । 'कृतं यजमानो विजिनाति" इति [ आप● ५.२०.१] । तथा मे मम सव्ये हस्ते जय आहितः कृतायसाध्यो जयो निहितोस्ति । अतः अहं गोजित परकीयानां गवां जेता भूया- सम् । अश्वजित् प्रतिकित्तवसंबन्धिनाम् अश्वानां जेता । धनंजयः । ध- नशब्द: सामान्यवाची । दासीभूम्यादिधनस्य जेता । "संज्ञायां भृतृवृजिधारिसहितपिदमः" इति जयते: खच् प्रत्ययः । “अरुर्विषदज- न्तस्य मुम्" इति मुम् । हिरण्यजित सुवर्णस्य जेता भूयासम् । लोके हि कितवा द्यूतकर्मणि गवादिधनं शुल्कं कृत्वा दीव्यन्ति तत्र ये जयन्ति ते तद्धनं स्वीकुर्वन्ति । अत्र जयस्य पूर्वार्धेन उक्तत्वाद् गवादि- धनजयलाभ: उत्तरार्धेन प्रार्थ्यते ॥ · नवमी ॥ अक्षाः फलवत द्यु॒वं॑ द॒त्त गां क्षीरिणीमिव । सं मां कृतस्य धार॑या धनुः स्नान्नैव नत ॥ ९ ॥ अक्षः । फलंऽवतीम् । द्यु॒व॑म् । द॒त्त | गाम् । वी॒रिणी॑म॒ऽइव | सम् । मा॒ । कृ॒तस्य॑ । धार॑या । धनु॑ः । स्नान्ना॑ऽइव | न॒द्य॒त् ॥ ९ ॥ अनया देवनसाधनभूतान् अक्षान् जयाय प्रार्थयते । हे अक्षाः यु- वम् द्यूतक्रियाम् । दीव्यते: संपदादिलक्षणो भावे किप् । “च्छोः शूडनुनासिके च" इति ऊठ् । तदन्ताद् द्वितीयैकवचने अभि उवङ् आ- देश: द्यूतक्रियां फलवतीं फलोपेतां दत्त प्रयच्छत । यथा धू- तेन धनलाभो भवति तथा कुरुतेत्यर्थः । तत्र दृष्टान्तः क्षीरिणीं गा- मिवेति । फलं कस्माद् भवति तम् आह । कृतस्य कृतशब्दवाच्यस्य चतुःसंख्यायुक्ताक्षविषयस्य लाभहेतोः अयस्य धारया संतत्या उपर्युपरि लाभहेतुकृतायप्रवाहेण मा मां सं नात संयोजयत । तत्र दृष्टान्तः ध- नुः स्नानेवेति । यथा धनुः कार्मुकं स्नाना स्नावनिर्मितया मौर्व्या सं- 1S यथा संतांमिति o संनह्यन्ति.