पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | ४०१ नह्यन्ति । यथा मौर्वीसंनद्धं कार्मुकं जयकारि भवति एवं मां कृतायप- रंपरया जयिनं कुरुतेत्यर्थः ॥ [अ० ४. सू० ५४.] ३६९ + दशमी ॥ बृह॒स्पति॑र्नः परि॑ पातु पश्चादुतोत्त॑रस्मा॒दध॑राघा॒योः । इन्द्र॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः सखा सर्व॑भ्यो॒ वरी॑यः कृणोतु ॥ १ ॥ बृह॒स्पति॑ । न । परि॑ । पा॒तु । पश्चात् । उत । उत्त॑रस्मात् । अर्धरात् । अघऽयोः । इन्द्र॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखा॑ऽभ्यः । वरी॑यः । कृणोतु ॥ १ ॥ बृहस्पतिः बृहतां देवानां पाता हितकारित्वेन पालयिता एतन्नामा दे- वः नः अस्मान् परि पातु परितः सर्वतो रक्षतु । सर्वत इत्युक्तम् क- स्माद् इति तद् आह । पश्चात् प्रतीच्या दिशः । “पश्चात् " इति अस्तात्यर्थे निपातितः 66 त्ययः । उत अपि च उत्तरस्मात् ऊर्ध्वा- लोकात् अधरात् अधस्तनालोकात् अधायोः अघं हिंसालक्षणं परेषाम् इच्छतीति अधायु: । हु अघशब्दात् " छन्दसि परेच्छायाम्" इति क्यच् । “ अश्वाघस्यात् ” इति आचम् । “क्याच्छन्दसि ” इति उम्र- अभिजिघांसतः पुरुषात् । परि पात्विति संबन्धः । तथा इन्द्रः पुरस्तात् प्राच्या दिश: उत अपि च मध्यतः मध्यात् प्रदेशात् नः अस्मान् परि पाविति । सर्वाभ्यो दिग्भ्यो योऽघायुरागच्छति ततो- स्मान् इन्द्राबृहस्पती परिपालयताम् इत्यर्थः । अपि च सखा सखिभू- त इन्द्रः सखिभ्यः समानख्यानेभ्यः स्तोतृभ्यः अस्मभ्यं वरीयः उरुतरं धनं कृणोतु करोतु ॥ तृतीयं सूक्तम् | समाप्तश्चतुर्थोनुवाकः ॥ पञ्चमेनुवाके त्रीणि सूतानि । तत्र “संज्ञानं नः " इति आद्यं सूतं बृहद्धणे पठितम् । तस्य शान्त्युदकाभिमन्त्रणादौ विनियोगः ॥