पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ अथर्वसंहिताभाष्ये तथा सांमनस्यकर्मणि "संज्ञानं नः" इति ब्यूचेन उदकुम्भं सुराकुम्भं वा संपात्य अभिमन्य ग्रामं परिभ्राम्य ग्राममध्ये निनयेत् ॥ तथा तस्मिन्नेव कर्मणि अनेन ड्यूचेन त्रिहायण्या वत्सतर्या: शुत्यांनि मांसानि संपात्य अभिमन्त्र्य भक्षयेत् ॥ तथा तस्मिन्नेव कर्मणि अन्नं सुरां प्रपां वा अनेन यूचेन संपात्य अभिमन्त्र्य यथायोगं भक्षणं पानं वा कुर्यात् ॥ 66 66 सूत्रितं हि । “सं वो मनांसिं[ ६. ९४] संज्ञानं नः [७. ५४] इति 'सांमनस्यानि | उदकुलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति । “एवं सुराकुलिजम् । त्रिहायण्या वत्सतर्या: शुक्त्यानि पिशितान्याशय- 'ति । भक्तं सुरां प्रपां संपातवत् करोति" इति [को०२.३] ॥ उपनयने आचार्यो माणवकस्य नाभि संस्पृश्य “ अमुत्रभूयात्” इति पळूचं जपेत् । दक्षिणेन पाणिना नाभिदेशे संस्तभ्य जपति । आ यातु मित्रः [३.८] अमुत्रभूयात् ” [७.५५] इति हि सूत्रम् [ कौ॰७.६] ॥ 6८ " तथा बार्हस्पत्यां राज्यश्रीब्रह्मवर्चसकामस्य " इति [न०क० १७] वि- हितायां बार्हस्पत्याख्यायां महाशान्तो अमुत्रभूयात्" इति आवपेत् । उक्तं नक्षत्रकल्पे | 'बृहस्पतिर्नः परि पातु पश्चात् [ ७. ५३] अमुत्रभूयात् [७.५५] इति बार्हस्पत्यायाम " इति [ न°क°१७] ॥ " पुष्ट्यर्थे आग्रहायणीकर्मणि अग्निसमीपात् प्रातरुत्थिते उद्वयम् ति उकामेत् । “उदायुषा [ ३.३१.१०] इत्युपोत्तिष्ठति । उड्डयम् [७. ५५.७] इत्युत्क्रामति ” इति हि [ कौ०३०७] सूत्रम् ॥ " 66 66 66 "" अन्नप्राशन कर्मणि भूमौ उपवेशितं बालम् 'उद्वयम्" इत्यनया आ- दिव्यं प्रदर्शयेत् ॥ तथा सोमयागे अवभृथस्नानानन्तरम् “[ उद्ययम् ]" इत्यनया जलाद् उत्क्रामेत् । 'संप्रोक्षति | अपां सूतैरित्याद्युपस्पर्शनान्तम् । उवयम् इ- न्युत्क्रामति" इति वैताने सूत्रितम [वै०३.१४] ॥ अध्यापकानाम अर्थार्जनविघ्नशमनार्थम् "ऋचं साम इत्यनया आ- 1 So S. See Sáyana on V1. 61. 2S पाश्रयं for पानं. 3S' मनांसीति 4S सं- प्रोक्ष्यापां for संप्राक्षति । अपां.