पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ अथर्वसंहिताभाष्ये मनसा अन्यदीयेन सं जानामहै समानज्ञाना भवाम । यद्वा मनः कर्म । परकीयं मनः संयोजयामः । यथा अस्मद्विषयेऽनुकूलं भवति त था कुर्म इत्यर्थः । “संप्रतिभ्याम् अनाध्याने इति जानातेरा- " चि- 66 66 66 66 मनेपदम् । 'संज्ञोन्यतरस्यां कर्मणि" इति मनसस्तृतीयाङ्क । किवा ज्ञात्वा । सम् | उपसर्ग श्रुतेर्योग्यक्रियाध्याहारः । संगतकार्यकारि णो भवाम । यहा पूर्व मनसा संगतिरुक्ता । इदानीं निश्चयात्मकज्ञाने- न संगतिः मार्थ्यते । चिकित्वा चिकित्वना । ज्ञानेनेत्यर्थः । सं जानाम- है इत्यनुषङ्गः । स्वेषां परेषां च मनसा ज्ञानेन च संगता भवामेत्य- र्थः । चिकित्वेति । कित ज्ञाने । समानकर्तृकयोः पूर्वकाले " इति त्वाप्रत्ययः । छान्दसं द्विवचनम् । 'एकाच: " इति इग्निषेधः । यह्वा “अन्येभ्योपि दृश्यन्ते” इति कनिपि पूर्ववद् द्विवचनम् | तृतीयाया डादेश: X । किं च दैव्येन देवसंबन्धिना देवताविषयेण | वाद् यञञौ ” इति यञ् प्रत्ययः । तादृशेन मनसा मा युप्महि मा वियुक्ता भूम । प्रतिकूलजनितविक्षेपराहित्येन स्वकीयं मनः सर्वदा दे- वताविषयं भववित्यर्थः । ॐ यु मिश्रणामिश्रणयोः । “माङि लुङ्” । सिच् । “संज्ञापूर्वको विधिरनित्यः” इति गुणाभावः । च बहुले अधिके विनिहुँते 66 अपि कौटिल्ये । “हु हरेश्छन्द- सि” इति निष्ठायां हु इत्यादेशः । कौटिल्ये निमित्ते घोषा: वै- मनस्यनिवन्धनाः शब्दा: मा उत्स्युः उत्थिता मा भूवन् । यड्डा ब- हुलशब्देन तमो विवक्ष्यते । विनिते विशेषेण स्तैन्यादिकौटित्यनिमित्ते बहुले तमसि | रात्रावित्यर्थः । घोषाः वैमनस्यनिबन्धना: शब्दा उ- त्थिता मा भूवन् । उत्पूर्वात तिष्ठते: “माङि लुङ्” | वचनस्य ऊर्ध्वकर्मत्वं विवक्षिता आत्मनेपदाभावः । सरे आगते च इन्द्रस्य इषुः । ऐन्द्या वाचः शत्रुनिवारकत्वाद् इषुत्वेन रूपणम् । “वाग् अस्यैन्द्री सपत्नक्षयणी” इति तैत्तिरीयश्रुतेः [तै० सं० १. ६.२.२]। यद्वा इन्द्रस्य इषुः अशनिः अशनिरूपा मर्मभेदिनी पर कीया वाक् मा पतत् अस्मासु मा पतनु । अहोरात्रोपलक्षितेषु सर्वेषु तथा अहनि अह्नि वा-