पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सप्तर्षऽभ्यः॑ । ए॒न॒म् । परि॑ । द॒ामि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रमे॑ । व॒- ॥ ४॥ ४०८ इमम् आयुष्कामं प्राण: मा हासीत् मा त्यजतु । ४ ओहाक त्यागे । लुङि रूपम ४ । अपान: अवहाय अस्माच्छरीराद् नि- क्रम्य परित्यज्य वा मा परा गात् मैव परागच्छतु । अवहाये- ति । जिहीतेर्जहातेर्वा त्यपि रूपम् । सप्तर्षिभ्यः । ऋषिशब्देन प्राणा उच्यन्ते । “के त ऋषय इति । प्राणा वा ऋषयः ” इति वाज- सनेयश्रुतेः [श° ब्रा॰ ६.१.१.१] । सप्तसंख्याकेभ्यः प्राणेभ्यः । वै शीर्षण्याः प्राणा: आयुष्कामम् । " सप्त 99 इति [तै ब्रा० १.२.३.३] श्रुतेः । तेभ्य: एनम् g" इदमोन्वादेशे” एनादेशः । परि ददा मि । रक्षार्थ दानं परिदानम् । रक्षितुं प्रयच्छामि । अथ ते सप्त प्राणा एनम् आयुष्कामं जरसे । ताद चतुर्थी । जरार्थ स्वस्ति क्षेमेण वहन्तु प्रापयन्तु । जरापर्यन्तं स्थापयन्तु इत्यर्थः । जराया जरस् आदेशः । अत्र प्राणापानयोः शरीरे चिरकालम् अवस्थानं सर्वेन्द्रियाणां च प्राबल्यं बहुकालं प्रार्थितम् ॥ सप्तमी ॥ प्र विशतं प्राणापानावनड्वाहा॑विव व्र॒जम् । अ॒यं ज॑रि॒म्ण शैव॒धिररि॑िष्ट इ॒ह व॑र्धताम् ॥ ५ ॥ प्र । विशतम् । प्राणापानौ । अनड्डाहौऽइव | व्र॒जम् । अ॒यम् । ज॒र॒म्णः । शेव॒ऽधिः । अरि॑ष्टः । इ॒ह । वर्धताम् ॥ ५ ॥ आयुष: प्राणापानावस्थाननिबन्धनत्वात् पुनःपुन: प्राणापानयोः शरी- रे प्रवेश: प्रार्थ्यते । हे प्राणापानौ प्रविशतम् आयुष्कामस्य शरीरम् । प्रवेशमात्रे दृष्टान्तः । अनड्वाही अनोवहनशक्तौ बलीवर्दों यथा व्रजम् गोष्ठं प्रविशतः तहत् | [ अयम् ] आयुष्काम: जरिम्णः जराया: शेव- धिः निधिर्भवतु । शेवं सुखं धीयतेऽत्रेति “कर्मण्यधिकरणे च " इति घो: किप्रत्ययः । किं च अरिष्ट: अहिंसितः मृत्युबाधारहि- "