पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ५५.] ३७० सप्तमं काण्डम् । ४०९ तः सर्वेन्द्रियैरहीनो वा इह अस्मिन् लोके वर्धताम समृद्धो भवतु ॥ अष्टमी ॥ आते॑ प्र॒ाणं सु॑वामसि॒ परा॒ यक्ष्म॑ सुवामि ते । आयु॑नो॑ वि॒श्वतो॑ द॒यम॒ग्निर्वरेण्यः ॥ ६ ॥ - हे 66 आ । ते॒ । प्रा॒णम् । सु॒वाम॒सि॒ । परा॑ । यक्ष्म॑म् । सु॒वामि॒ । ते । आयु॑ः । नः॒ । वि॒श्वत॑ः । दु॒धत् । अ॒यम् । अ॒ग्निः । वरे॑ण्यः ॥ ६ ॥ आयुष्काम ते तव प्राणम् आ सुवामसि आगमयामः । प्रेरणे । तौदादिकः । 'इदन्तो मसिः ” ॥ तथा ते तव यक्ष्मम् आयुः प्रतिबन्धकं रोगं मृत्युं वा परा सुवामि पराङ्मुखं प्रेरयामि ॥ किं च वरेण्यः वरणीयः संभजनीयः अयं हूयमानः अग्निः नः अस्मदीयस्य आयुष्कामस्य आयु: शतसंवत्सरपरिमितं जीवनं विश्वतः सर्वतः दधत विदधातु । करोत्वित्यर्थः 1 दधातेर्लेटि “घोर्लोपो लेटि वा " इ- ति लोपः । “लेटोडाटौ” इति अडागमः ॥ नवमी ॥ 66 उद् व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मु॒त्त॒मम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ ७ ॥ उत् । वयम् । तम॑सः । परि॑ । रोह॑न्तः । नाक॑म् | उत्तमम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योति॑ । उत्तमम् ॥ ७ ॥ 66 तमसः । पाप्मा वै नमः" इति हि श्रुतिः [तै० सं० ५.१.४.६] । पाप्मनः परि उपरि वयम् उत्क्रान्ताः । & उदुपसर्गः ससाधनां क्रि- याम् आह । 'पञ्चम्याः परग्वध्यर्थे” इति सकार: । किं कुर्व- न्तः । उत्तमम् उत्कृष्टं नाकम् दुःखसंस्पर्शरहितं स्वर्ग रोहन्तः आरो- हन्तः । ततश्च देवत्रा देवेषु । उ“देवमनुष्य" इति सप्तम्यर्थे त्रा उद्गततमं ज्योतिः ज्योतीरूपं द्योतमानं सूर्य X गमेर्लुङि “मन्त्रे घस” इति हेर्लुक् । प्रत्ययः । उत्तमम् देवम् अगन्म गच्छेम | " म्वोश्च " इति मकारस्य नकारः ॥ 66