पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० अथर्वसंहिताभाष्ये दशमी ॥ ऋच॑ साम॑ यजामहे॒ याभ्यां॒ कर्म॑णि कुर्वते॑ । ए॒ते सद॑सि राजतो य॒ज्ञं दे॒वेषु॑ य॑च्छतः ॥ १ ॥ ऋ॒च॑म् । साम॑ । य॒जा॒म॒हे॒ । याभ्या॑म् । कर्माणि । कुर्वते॑ । ए॒ते इति॑ । सद॑सि । राजतः । य॒ज्ञम् । दे॒वेषु॑ । य॒च्छतः ॥ १ ॥ ऋचम् ऋग्वेदं साम सामवेदम् अधीतं यजामहे हविषा पूजयाम: । याभ्याम् ऋक्सामाभ्यां कर्माणि यज्ञरूपाणि कुर्वते ऋत्विग्यजमानाः । एते ऋक्सामे सदसि सीदन्त्यत्रेति सदः एतन्नामके मण्डपे राजतः दी- प्येते । ऋक्सामयोस्तत्रैव प्रयोगात् । तथा देवेषु यज्ञं यच्छतः प्रयच्छ- तः । स्तुतशस्त्राभ्यां यज्ञनिप्पत्तेः ॥ इति पञ्चमेनुवाके प्रथमं सूक्तम् ॥ 66 अध्यापकानाम् अर्थार्जनविघ्नशमनार्थम् 'ऋचं साम यद् अप्राक्षम् " इति ऋचा केवलया “ऋचं साम यजामहे” इति पूर्वमन्त्रसहितया च आज्यं जुहुयात् । “ऋचं सामेत्यनुप्रवचनीयस्य जुहोति । युक्ताभ्यां तृती- याम्” इति हि [ कौ० ५. ६] सूत्रितम् ॥ मार्गस्वस्ययनकर्मणि “ ये ते पन्थान : ” इत्येनाम् ऋचं जपन् प्रथ- मं दक्षिणपादप्रक्षेपपुरःसरं गच्छेत् ॥ तथा सर्वस्वस्ययनकर्मणि असंख्याताः शर्करास्तृणानि वा अनया अ- भिमन्य गृहक्षेत्रादिषु प्रक्षिपेद् इन्द्रम् उपतिष्ठेत वा ॥ ८८ सूत्रितं हि । 'स्वस्तिदाः[१.२१] ये ते पन्थान: [७. ५७,२] इ. “त्यध्वानं दक्षिणेन प्रक्रामति । असंख्याताः शर्करास्तृणानि क्षिप्वोपति- ‘ठते ” इति [ कौ॰ ७,१] ॥ 66 वृश्चिकमशकपिपीलिकाशकर्कोटकादिविषभैषज्यार्थं "तिरश्चिराजे: " इत्य- ष्टर्चेन मधुकम् अभिमन्य वृश्चिकादिदष्टं पायगेत् ॥ १ s गच्छतः corrected from यच्छतः, २ Pऋचम्. IS मंटप. 22 S ' irnserts प्रदिषु after क्षेत्रादिपु. 3SoS. Kausika: व्युदस्यत्यसं- ख्या 1NS Kusika: छित्वाप 5S' शर्कोटिकादिविषय.