पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ५७.]३७२ सप्तमं काण्डम् । तथा तत्रैव कर्मणि क्षेत्रमृत्तिकां वल्मीकमृत्तिकां वा सजीवपशुचर्मावे- ष्टिताम् अनेन अष्टर्चेन संपात्य अभिमन्य बनीयात् । केवलां मृत्तिकाम् अभिमन्य उदकेन पाययेत् ॥ तथा तस्मिन्नेव कर्मणि अनेनैव उदपात्रं हरिद्रामिश्रम आज्यं वा संपात्य अभिमन्य पाययेत् ॥ ४११ सूत्रितं हि । “तिरश्चिराजेरिति मन्त्रोक्तम् । आकृतिलोष्टवल्मीको प रिवेष्ट्य | पायनानि ” इति [ कौ० ४.७] ॥ ,, तथा उपाकर्मणि 'अरसस्य शर्कोटस्य इत्यनया आज्यं जुहुयात् । अरसस्य शंटस्य [ ७ ५७,५] इन्द्रस्य प्रथमो रथ: ” [१०.४] इति हि सूचितम् [ कौ०१४.३] ॥ तत्र प्रथमा ॥ ऋच॑ साम॒ यदप्रा॑क्षं ह॒विरोजो॒ यजुर्बल॑म् । ए॒ष मा॒ तस्मा॒न्मा हि॑सी॒द् वेद॑ः पृ॒ष्टंः श॑चीपते ॥ १ ॥ ऋच॑म् । साम॑ । यत् । अमा॑क्षम् । ह॒विः । ओज॑ः । यजु॑ः । बल॑म् । ए॒ष । मा॒ । तस्मा॑त् । मा । हि॑सी॒ीत् । वेद॑ । पृ॒ष्टंः । श॒चीऽप॒ते ॥ १ ॥ ऋचम् ऋग्वेदं हविः अमाक्षम पृच्छामि स्म । साम सामवेदम् ओ- जः । शरीरधारकोष्टमो धानुरोज इत्युच्यते । तद् अमाक्षम । यजुः य- जुर्वेदं बलम् बाह्यं वीर्यम अप्राक्षम् । ऋचा याज्यारूपया हवियत इति ऋग्वेदं प्रति हविःप्रश्नः । माध्यन्दिनसवने गीयमानानां पृष्ठस्तोत्राणां यज्ञप्राणत्वेन ताण्डकब्राह्मणे संस्तवात सामवेदं प्रति आन्तरबलरूपौज:म- नः । यजुषा यज्ञशरीरनिर्वृत्तेर्यजुर्वेदं प्रति बलमश्नः । “अकथितं 3. च" इति ऋगादेः कर्मता अप्राक्षम् इति । पृच्छतेर्लुङि “एकाच इति इनिषेधे "वज इति हलन्तलक्षणा वृद्धिः । यच्छब्दो हेर्थे । यत् यस्मात् ऋगादीन प्रति हविरादिकम् अमाक्षं तस्मात् का- १ AK K S V C पृष्ठ: We with BDRP. २ P ओजः ३PJ Cr पृष्टः W. with 1. 1S शर्कोटिकस्य 2S' निवृत्त. "" "