पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ अथर्वसंहिताभाष्ये रणात् तत्तदसाधारणधर्मप्रश्नाद्धेतो हे शचीपते इन्द्राणीपते इन्द्र । वा- ग्व्याकरणकर्तृत्वाद् इन्द्रः संबोध्यते । तथा च तैत्तिरीयकम् । " ताम् इन्द्रो मध्यतोवक्रम्य व्याकरोत् । तस्माद् इयं व्याकृता वाग् उद्यते” इति [तै० सं० ६. ४. ७.३]। हे वागनुशासनकर्तः इन्द्र पृष्टः इत्थं विचारित एष: मया सम्यग् अधीतो वेदः ऋक्सामयजुरात्मकः मा माम् अध्या- पकं मा हिंसीत् मा हिनस्तु । अध्यापननिबन्धनं प्रत्यवायं मा करोतु अपि तु फलम् अभिमतं प्रयच्छत्वित्यर्थः ॥ द्वितीया ये ते पन्थानोव॑ दि॒वो येभिर्विश्वमैर॑यः । तेभिः सुम्या धेहि नो वसो ॥ २ ॥ ये । ते॒ । पन्था॑नः । अव॑ । दि॒वः । येभि॑ः । विश्व॑म् । ऐर॑यः । तेभि॑ः । सु॒म्न॒ऽया । आ । धे॒हि॒ । नः॒ | व॒सो॒ इति॑ ॥ २ ॥ हे वसो वासयित: वसुमन् वसुप्रद वा इन्द्र ते तव ये पन्थान: मा- र्गा दिवः धुलोकस्य अव अवस्ताद् अधोदेशे वर्तन्ते येभिः पथिभिः वि- श्वम् जगद् ऐरय: प्रेरयसि स्वस्वकर्मसु । ईर गतौ । छान्द- सो लङ् । तेभिः तैर्विश्वप्रेरणसाधनैर्मा: नः अस्मान् सुम्न- या । सप्तम्या याजादेशः । सुने सुखे आ धेहि स्थापय ॥ तृतीया || तिर॑श्विराजेरसि॒तात् पृदा॑नो॒ परि॒ संभृ॑तम् । तत् क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥ १ ॥ तिर॑श्चिऽराजे: । असितत् । पृदा॑कोः । परि॑ि । समा॒ऽभृ॑तम् । तत् । क॒ङ्कऽप॑र्वणः । वि॒िषम् । इ॒यम् । वीरुत् । अनीनशत् ॥ १ ॥ तिरविराजे: तिरयः तिर्यग्भूता राजयो रेखा यस्य स तिरश्चिराजि: सर्पविशेषः तिरः शब्दोपपदाद् अञ्चतेः किन्नन्ताद् “अञ्चतेश्योप- संख्यानम्” इति ङीपि “अचः” इति अकारलोप: । पुंवद्भावाभावश्छा- 66