पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१३ [अ० ५. सू० ५६.] ३७३ सप्तमं काण्डम् | न्दसः । “ड्यापोः संज्ञाहन्दसोर्बहुलम्” इति ङीपो इस्ववम् । ति- रवीननानारेखोपेतात् सर्पविशेषात् असितात् सितः श्वेतः न सित: अ- सितः तस्मात् कालोरगात प्रदाकोः । पर्द कुत्सिते शब्दे । “पर्देः संप्रसारणं चं” इति [उ०३.४०] आकुप्रत्ययः । तत्संनियोगेन संघ- सारणम् । पर्दयति कुत्सितं शब्दयति स्वेन दष्टान् प्राणिन इति पृदाकुः 5: सर्पविशेषः । तस्मात् । परिः पञ्चम्यर्थानुवादी ति- रश्चिराजिमभृतेः सर्पविशेषात् संभृतम् संपादितं विषम् । तथा कङ्कपर्वणः एतन्नामकाद् दंशकविशेषात् संभृतं तद् विषम् इयं प्रयुज्यमाना वीरुत विशेषेण रोहन्ती मधुकाख्या ओषधिः अनीनशत् नाशयतु ॥ चतुर्थी ॥ । इ॒यं वी॒रुन्मधु॑जातां मधुश्रुन्म॑धुला मधूः । सा विहु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥ २ ॥ इ॒यम् । वी॒रुत् । मधु॑ऽजाता | मधुश्चत् । मधुला । मधूः । सा | विऽहु॑तस्य | भेष॒जी । अथो॒ इति॑ । म॒शक॒ऽजम्भ॑नी ॥ २ ॥ इयं प्रयुज्यमाना वीरुत् ओषधि : मधुजाता मधुनो निप्पन्ना अत एव मधुयुत् मधुरं र ऋयोति क्षरतीति मधुयुत् मधुररसस्राविणी मधु- ला मधुमती । * “सिध्मादिभ्यश्च ” इति लो मत्वर्थीयः । मधूः नामतः । सा एतत्संज्ञः उक्तविधगुणोपेता मधुकाख्या ओषधिः विहुत- स्य विशेषेण कौटिल्यकारिणो विषस्य भेषजी प्रतिकर्त्री । हृ कौ- टिल्ये । “हु ह्वरेश्छन्दसि ” इति निष्ठायां हु इत्यादेशः । अथो अपि च मशकजम्भनी । जभतिर्हिसाकर्मा ४ | मशकानां दं- शकानां हिंसिनी ॥ पञ्चमी ॥ यतो॑ द॒ष्टं यतो॑ धा॒तं तत॑स्ते॒ निदे॑यामसि । १ BBK K जाता. C °जाता changed to °जाता. We with ADR SP P J V. २ B °जंभनी:. 1 So S'.