पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अर्भस्य॑ तृप्रद॒शिनो॑ म॒शक॑स्यार॒सं विषम् ॥ ३ ॥ । यत॑ः । द॒ष्टम् । यत॑ः । धी॒तम् । तत॑ः । ते॒ । निः । ह्वयामसि । अ॒र्भस्य॑ । तृ॒म॒ऽद॒शिन॑ः । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥ ३ ॥ सप्तम्यर्थे तसिः । विषदष्टं संबोध्य उच्यते । यतः । य- त- स्मिन् प्रदेशे दष्टम् । सर्पादिनेति शेषः । भावे निष्ठा छ । था यत: यस्मिन् प्रदेशे धीतम् पीतं सर्पादिना । धेट् पाने । भा- वे निष्ठा । 66 'घुमास्था" इति ईत्वम् । हे सर्पदष्ट पुरुष ते तव अय वय ततः तस्माद् अवयवाद् निर्वयामसि विषं निर्गमयामः । पय मय चय तय गतौ । अन्तर्भावितण्यर्थः । तथा त्रिप्रदंशिनः त्रिभिर्मुखपुच्छपादरूपैरङ्गैः प्रकर्षेण दशतीति त्रिप्रदंशी । "बहु- लम् आभीक्ष्ण्ये” इति दंशेर्णिनिः ४ । मुखपुच्छाभ्यां पादेन च दष्टवतः अर्भस्य अर्भकस्य अल्पस्य अल्पसामर्थ्यस्य वा मशकस्य विषम् अरसम् निर्वीर्यम् । ४१४ शृङ्गारादौ रसे वीर्ये गुणे रागे द्रवे रसः । इति वचनाद् रसशब्दो वीर्यवाची । निर्वीर्य निर्वयामसीति संबन्धः । विषं मूर्च्छनादिविकारानुत्पादकं कुर्म इत्यर्थः || षष्ठीं ॥ अयं यो व॒क्रो विप॑रु॒र्व्यो मुखनि वृ॒क्रा वृ॑जि॒ना कृणोषि॑ि । तानि॒ त्वं ब्र॑ह्मणस्पतं इ॒षीका॑मिव॒ सं न॑मः ॥ ४ ॥ अ॒यम् । यः । व॒क्र । विऽप॑रुः । विऽअ॑ङ्गः । मुखा॑नि । व॒क्रा । वृज॒ना । कृणोषि॑ि । तानि॑ । त्वम् । ब्रह्म॒णः । पते॒ । इ॒षीमऽइव | सम् । नमः ॥ ४ ॥ योयं सर्पादिना दष्टः पुरुषः वऋः कुटिलावयवः संकोचितावयवः विपरुः । परुः पर्व । विश्लिष्टपर्वा विगतसंधिः व्यङ्गः विवशावयवः । २'S °स्पते इ 3BDKK १ ABDKK SVC- Cr त्रिप्र° We with RPP J V Cs न॑म. We with ARŚPPJ. १