पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ५६.] ३७३ सप्तमं काण्डम् । ४१५ त्ययः । एवंभूतः सन् मुखानि । आदिशब्दाध्याहारः । मुखादीनि अङ्गानि । मुखगतावयवापेक्षया वा बहुवचनम् | वक्रा वक्राणि कुटिलानि अत- एव वृजिना वृजिनानि कष्टानि अनवस्थितानि । अङ्गानां यथासंनिवे- शम् अनवस्थानाद् वृजिनवम् । तथाविधानि कृणोषि । पुरुषव्य- कृणोति करोति हे ब्रह्मणस्पते ब्रह्मणो मन्त्रस्य पालक विषनिर्हरणमन्त्रसामर्थ्यप्रद एतन्नामक देव त्वं तानि दष्टपुरुषसंबन्धी नि वक्रत्वाद्यवस्थापन्नानि अङ्गानि सं नमः संनमय ऋजूकुरु । तत्र ह- ष्टान्तः इषीकामिवेति । यथा इषीकाम पूर्वम् ऋजुं दीर्घा बलात् कौ- टिल्यं प्रापितां पश्चात् कौटिल्यपरिहारेण सहजम् आर्जवं प्रापयन्ति त इत् । एनं सर्पादिविषेण कौटिल्यं गतं विषनिर्हरणेन यथावस्थितम् ॠ- जुं कुर्वित्यर्थः । नमेः अन्तर्णीतण्यर्थात् पञ्चमलकारे अडागमः ४ ॥ सप्तमी ॥ अर॒सस्य॑ श॒स्य नी॒चीन॑स्योप॒सर्प॑तः । वि॒षं ह्य॑स्यादि॒ष्यथो॑ ए॒नमजीजंभम् ॥ ५ ॥ अ॒रसस्य॑ । शर्कोट॑स्य | नीचीन॑स्य । उपऽसपैतः । । विषम् । हि । अस्य | आ॒ऽअदि॑षि । अथो॒ इति॑ । ए॒नम् | अजीजभम् ॥ ५ ॥ अरसस्य निर्वीर्यस्य विषसामर्थ्यरहितस्य नीचीनस्य न्यग्भूतस्य अवा- ड्युखस्य उपसर्पतः समीप गच्छतः अस्य शर्कोटस्य एतन्नामधेयस्य स - र्पविशेषस्य विषम अदिषि खण्डितवान् अस्मि । हिः अवधारणे । वि षम् अनीनशमेव । ४दो अवखण्डने । अस्मात् लुङि व्यत्ययेन आ- त्मनेपदम् । “स्थाघ्वोरिच्च” इति धातोः इत्त्वम् । सिच: कित्वम् ॥ थो अपि च एनं विषिणं टम् अजीजभम् अनीनशम् । शर्कोट- नामकं सर्प तद्विषं च मन्त्रसामर्थेन अहं प्रयोक्ता अहंसिषम् इत्यर्थः ॥ अ- अष्टमी | न ते बाह्वोर्बल॑मस्ति न शीर्षे नोत मध्यतः । १ BR ३ for १. We with BK KŚv K जीगमम्. २