पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ अथर्वसंहिताभाष्ये अथ॒ किं पा॒पया॑मु॒या पुच्छे बिभर्ष्यर्भूकम् ॥ ६ ॥ न । ते । बाह्वोः । बल॑म् । अस्ति । न । शीर्षे । न । उ॒त । मध्य॒तः । अथ॑ । किम् । पा॒पया॑ । अ॒मु॒या । पुच्छे । वि॒भषि॑ । अर्भकम् ॥ ६ ॥ अत्र पुच्छेन दंशी वृश्चिकः संबोध्यते । हे वृश्चिक ते तव बाह्रोः हस्तयोः बलं परपीडाकारि सामर्थ्य नास्ति । तथा शीर्षे शिरसि बलं नास्ति । उत अपि च मध्यतः । सप्तम्यर्थे तसिः ४ । मध्ये अदः- पा- अर्ते: औणा- मध्यावयवे बलं नास्ति । अथेति प्रश्ने । अमुया अनया । शब्दात तृतीयैकवचने “अदसोसेर्दादु दो मः” इति उत्तमत्वे छ । पया पापिष्ठया परपीडाकारिण्या बुद्ध्या अर्भकम् । दिके भन्प्रत्यये अर्भः । सः अल्पार्थवाची । तस्माद् “अल्पे च” इति अल्पार्थे कन् प्रत्ययः । अत्यल्पं विषं पुच्छे किं बिभर्षि किमर्थ धारयसि । बाह्वादिस्थानेषु विषं नास्ति । पुच्छेपि वर्तमानम् अत्यल्प - मेव । तदपि परपीडायै वहसि । तेनापि परपीडा न भवतीत्यर्थः ॥ नवमी ॥ अदन्ति वा पि॒पीलंका वि वृ॑श्वन्ति म॑यूर्यः । सर्वे भल ब्रवाथ शार्केटमर॒सं वि॒षम् ॥ ७ ॥ अ॒दन्त । त्वा॒ । पि॒पील॑ः । वि । वृश्च॒न्ति॒ । म॒यूर्य॒ः । सर्वे । भल॒ | ब्रुवाथ॒ | शार्केटम् । अर॒सम् । वि॒िषम् ॥ ७ ॥ अत्र पूर्वार्धे सर्पः संबोध्यते । उत्तरार्धे विषनिर्हरणक्षमाः संबोध्यन्ते । हे सर्प त्वा त्वां पिपीलिका अदन्ति भक्षयन्ति । मयूर्यः मयूरस्त्रि- “जातेरस्त्रीविषयाद् अयोपधात्" इति ङीष् वृश्चन्ति विशेषेण छिन्दन्ति सर्पम् । ४ ओवश्व छेदने । “ग्रहिज्या" इत्यादिना संप्रसारणम् यः । । वि ॥ हे सर्वे सर्पविषनिर्हरणक्षमा यूयं शा- कर्कोटम् । शर्कोटो नाम सर्पविशेषः । तस्य संबन्धि । 'तस्ये- १ B मयूर्य: २ PPJ Cr onmit the visarga. "