पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ५९.] ३७४ सप्तमं काण्डम् | ४१९ सरस्वती वाग्देवता तद् अङ्गं घृतेन घृतवत्सारभूतेन फलेन आ पृणत् आपूरयनु । पृण प्रीणने । लेटि अडागमः ॥ द्वितीया || स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑ । उभे इद॑स्योभे अ॑स्य राजत उ॒भे येतेते उभे अ॑स्य पुष्यतः ॥ २ ॥ स॒प्त । स॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रास॑ः । अपि॑ । अ॒वी॒वृत॒न् । ऋ॒तानि॑ । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भे इति । अस्य | राजतः । उभे इति । यतेते इति॑ । उभे इति॑ । अ॒स्य॒ । पुष्यतः ॥ २ ॥ 66 "" • मरुत्वते मरुद्भिर्युक्ताय शिशवे अपां पुत्रभूताय वरुणाय सप्त नद्यः क्ष- रन्ति स्रवन्ति । 'सुदेवो असि वरुण यस्य ते सप्त सिन्धवः” इति हि दाशतय्याम आम्नायते [ऋ°४.६९.१२] । “अपां शिशुर्मातृतमास्वन्तः इति मन्त्रान्तरम् [तै० सं० १.६.१२.१] । यद्वा मरुत्वत्पदसामर्थ्याद् इन्द्र उच्यते । मरुत्वते मरुद्भिस्तद्वते शिशवे । * शो तनूकरणे इत्य- स्माद् उत्पन्न: शिशुशब्दः । शत्रूणां शातयित्रे इन्द्राय । ष्ठ्यर्थे चतुर्थी । तस्याज्ञया सप्त सर्पणशीला: स्रवणशीला: सप्त- संख्याका वा नद्यः क्षरन्ति प्रवहन्ति । तथा च दाशतय्यां नदीवाक्य- त्वेन अयं मन्त्र आम्नायत । इन्द्रो अस्माँ अरदद् वज्रबाहुरपाहन वृत्रं परिधिं नदीनाम् । देवोनयत् सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥ इति ते । 66

ता-

[ ऋ० सं० ३.३३.६] ॥ किं च पित्रे । पितृशब्देन द्युलोक उच्य- द्यौः पिता पृथिवी माता" इति [ तै० ब्रा० ३. ७. ५.५] मन्त्रव- र्णात् । धुलोकस्थिताय इन्द्राय इन्द्रप्रमुखाय देवगणाय वा । स्थ्यात् ताच्छन्द्यम् । पुत्रासः । * पुत्रः पुरु त्रायते इति नि- रुक्तम् [ नि०२ ११] । हवि:प्रदानादिना पोषकाः पुत्रभूता वा मनुष्याः । अपिशब्दः चार्थे । ऋतानि सत्यभूतानि यज्ञादिरूपाणि क- ..