पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ४२० र्माणि अवीवृतन वर्तयन्ति अनुतिष्ठन्ति । वर्ततेर्ण्यन्तात् लुङि चङि 66 उॠत्" इति ऋकारादेशः ॥ उभे द्विवचनसामर्थ्याद् द्यावा- पृथिव्यावुच्येते । इत् 'अवधारणे । ते एव अस्य पितृपुत्रशब्दव्यवहृत्तस्य देवमनुष्यात्मकस्य संघस्य | निवासस्थाने भवत इति शेषः । तथा उभे द्यावापृथिव्यौ अस्य देवमनुष्यसंघस्य राजत: ईश्वर्यौ भवतः । रा- जतिः ऐश्वर्यकर्मा X । तेषाम् आश्रयत्वेन तयोः स्वामित्वम् । उभे द्यावापृथिव्यौ यतेते प्रयत्नं कुरुतः देवमनुष्यार्थम् । यती प्रय- ले । तथा उभे द्यावापृथिव्यौ अस्य । कर्मणः संप्रदान- त्वात् चतुर्थ्यर्थे षष्ठी । इमं देवमनुष्यसंघ पुष्यतः अन्नोदकैः · पो- षयतः । “भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यमयः” इति [ ऋ० १. १६४. ५१] श्रुत्यन्तरात् । द्यावापृथिवीकर्तृकपोषणलिङ्गाद् याचकाभिल- षितप्राप्तौ अस्य मन्त्रस्य विनियोगोऽभिहितः ॥ तृतीया || इन्द्रवरुणा सुतपावि॒मं सुतं सोमं पिवतं मद्यं धृतवतौ । यु॒वो रथो॑ अध्व॒रो दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ यातु पी॒तये॑ ॥ १ ॥ इन्द्रा॑वरुणा । सु॒त॒ऽपी॒ौ। इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृत॒ऽव॒तौ । यु॒वोः । रथ॑ः । अ॒ध्व॒रः । दे॒वऽवी॑तये । प्रति॑ । स्व॑स॑र॒म् । उप॑ । धा॒तु । पी- तये ॥ १ ॥ हे सुतपौ सुतस्य अभिषुतस्य सोमस्य पातारौ हे धृतवती विधृतक- र्माणौ हे इन्द्रावरुणा इन्द्रावरुणौ मद्यम् मदाई मदकरं तृप्तिकरम् इ- मम् अस्मदीयं सुतम् अभिषुतं सोमं पिबतम् । तदर्थं युवोः युवयोः अध्वरः हिंसारहितः शत्रुभिरपराजितो रथः पीतये युवयोः सोमपीताय देववीतये देवकामाय । X षष्ठ्यर्थे चतुर्थी यजमानस्य स्वस- । रम गृहं प्रति उप यातु समीपे आगच्छतु ॥ १ K अध्व॒रं. मै अध्व॒रा corrected from अध्व॒रं. We witli ABDRS C. सांर. We wilh JCP. २P स्व-