पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये बहुवचनान्तश्च । हे गृहा: यूयं रमध्वम् क्रीडत सुखिनः स्यात । मयाधिपतिनेति शेषः । अतः मत् मत्तः । ११ “पञ्च॑म्या अत्" इति अत् आदेशः । देशान्तराद् आगच्छतो मत्तः मा बिभीत अ- न्यो गृहस्वामी सन् अस्मान् प्रविशतीति भयं मा प्राप्नुत । “भी- त्रार्थानां भयहेतुः” इति मत् इत्यंत्र अपादानसंज्ञायां पञ्चमी ॥ द्वितीया ॥ ४२४ इ॒मे गृ॒हा म॑यो॒ोभुव॒ ऊर्ज॑न्त॒ पय॑स्वन्तः । पूर्णा वामेन॒ तिष्ठ॑न्त॒स्ते नो॑ जान॒न्त्वाय॒तः ॥ २ ॥ इ॒मे । गृहाः : । म॒यः॒ऽभुवः॑ । ऊर्ज॑स्व॒न्तः । पर्यस्वन्तः । पू॒र्णाः । वा॒मेन॑ । तिष्ठ॑न्तः । ते । नः । जा॒नन्तु । आ॒ऽय॒तः ॥ २ ॥ मयोभुवः । मय इति सुखनाम । सुखस्य भावयितार: ऊर्जस्वन्तः अन्नरसवन्तः पयस्वन्तः क्षीरादिसमृद्धाः वामेन वननीयेन धनेन पूर्णा : संपूर्णा: समृद्धास्तिष्ठन्तः ते इमे पुरतो दृश्यमाना अस्मदीया गृहा: आ- यतः प्रवासाद् आगच्छतो नः अस्मान् जानन्तु स्वामित्वेन अवबुध्य- 2 आयत इति । आङ्पूर्वाद् एते: शतरि “इणो यण् ” " न्ताम् । इति यण् ॥ तृतीया ॥ येषमध्येति॑ प्र॒वस॒न्॒ येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जान॒न्त्वाय॒तः ॥ ३ ॥ येषा॑म् । अधऽएति॑ । प्र॒ऽवस॑न्॑ । येषु॑ । सौ॒म॒न॒सः । ब॒हुः । गृहान 1 उप॑ । ह्वया॒ाम॒द्दे॒ । है । नः । जा॒नन्तु । आ॒ऽय॒तः ॥ ३ ॥ प्रवसन् प्रवासं कुर्वन् देशान्तरे वसन पुरुषो येषाम् यान् गृहान् अ- ध्येति स्मरति । इक् स्मरणे । “अधीगर्थदयेशां कर्मणि" इति येषाम् इत्यत्र षष्ठी । येषु गृहेषु सौमनसः सौमनस्यवान् बहु: अ- प्र॒वस॒न्त्येषु॑ R ए॒वस॒न्ने॑षु॑. We with ABDKK SVC. १ B clhange- प्र॒वस॒न्येषु॑ 1NS 2S' 'त्यस्य for 'त्यत्र.