पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । ४२५ [अ० ६. सू० ६२.] ३७७ धिक: पदार्थो वर्तते । 66 सुमन:शब्दाद् भावे अण् द्रष्टव्यः । सौ- मनसम् अस्यास्तीति अर्शआदित्वाद् अच् प्रत्ययो मत्वर्थीयः । सुमनसो- ऽयम् इति वा । 'तस्येदम्” इति अण् । तान् गृहान् उक्त- विशेषणान् उप हृयामहे प्राप्तुं प्रार्थयामहे । अनुज्ञास्वीकाराय यत् प्रा- र्थनं तद् उपहव इत्युच्यते । “निसमुपविभ्यो ह्वः” इति आत्म- नेपदम् । ते नो जाननत्वायत इति पादो व्याख्यातः ॥ चतुर्थी ॥ उप॑ह॒ता भूरि॑धना॒ सखा॑यः स्व॒दुस॑मु॒दः । अक्षुध्या अ॑नु॒ष्या स्त॒ गृ॒ा मास्मद् वि॑िभीतन ॥ ४ ॥ उप॑ऽहूताः । भूरि॑ऽधनाः । सखा॑यः । स्व॒दुऽस॑मु॒दः । अ॒क्षुध्याः । अतृष्याः । स्तु॒ । गृ॒हा॑ । म अ॒स्मत् । बिभीतन ॥ ४ ॥ - हे गृहा उपहूता: अनुज्ञार्थ प्रार्थिता यूयं भूरिधनाः प्रभूतधनोपे- ताः स्त भवत | सखायः समानख्याना मित्रभूता भवत । स्वादुसंमुदः स्वादुभिर्मधुरैः पदार्थैः संमोदमाना भवत । अक्षुध्याः क्षुधं बुभुक्षाम अर्हन्तीति क्षुध्याः न क्षुध्या अक्षुध्या: । अतृष्या: तृषं पिपासाम् अ- र्हन्तीति तृष्या: न तृष्णा [ अतृष्या: ] | क्षुतृष्णोपेतैर्जनैर्युक्ता मा भूत अ- पि तु धनादिसमृद्ध्या सर्वदा तृप्तैर्जनैर्युक्ता भवतेत्यर्थः । क्षुत्तृष्णा- शब्दाभ्यां " तद् अर्हति" इत्यर्थे “छन्दसि च” इति यप्रत्ययः । अ- स्तेर्लोटि मध्यमबहुवचने रूपं स्तेति हे गृहाः अस्मत् अस्मत्तः 66 । देशान्तराद् आगच्छद्भ्यो मा बिभीतन भयं मा प्राप्नुत । भये । लोटि तस्य तनादेशः ४. ॥ ञिभी पञ्चमी ॥ उप॑हूता इ॒ह गाव॒ उप॑हूता अज॒वय॑ः । अथो॒ अन्न॑स्य क॒लाल॒ उप॑ह॒तो गृहेषु॑ नः॑ः ॥ ५ ॥ उप॑ऽहूताः । इ॒ह । गाव॑ः । उप॑ऽहूताः । अज॒ऽअ॒वय॑ः । १BDKRŚVCs णः. We with A K. ५४