पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ अथर्वसंहिताभाष्ये अथो इति॑ । अन्न॑स्य । क॒ीलालः । उप॑ऽहूतः । गृहेषु॑ । नः॑ ॥ ५ ॥ इह एषु अस्मदीयेषु गृहेषु गावः धेनव उपहूता: अनुज्ञार्थं प्रा- चिंता भवन्तु | अजावय: अजाश्च अवयश्च उपहूताः सन्तु । अथो अ- पि च नः अस्माकं गृहेषु अन्नस्य कीलाल: सारभूतोंश: उपहूतो भ- वतु । एतद् उपलक्षणम् । यद्यद् गृहे भोग्यं वर्तते तत् सर्वम् अनु- ज्ञायै प्रार्थितं भवत्वित्यर्थः ॥ षष्ठी ॥ सू॒नृता॑वन्तः सुभगा॒ इरा॑वन्तो हसामु॒दाः । अतृप्या अक्षुध्या स्त॒ गृहा मास्मद् बिभीतन ॥ ६ ॥ सू॒नृता॑ऽवन्तः । सु॒ऽभगा॑ः । इरा॑ऽवन्तः । ह॒सा॒ामु॑दाः । अतृष्याः । अक्षुध्याः । स्तु॒ । गृ॒हा॑ । मा । अ॒स्मत् । बिभीतन ॥ ६ ॥ " हे गृहा: सूनृतावन्तः । प्रियसत्यात्मिका वाक् सूनृतेत्युच्यते । तद्वन्तः स्त भवत । अरिष्टादिनिमित्तवाग्राहित्येन पुत्रभित्रादिसंपत्तिनिमित्तवाक्स- हिता भवतेत्यर्थः । प्रवसति यजमाने गृहे जातमप्यरिष्टं पुनरागच्छति गृहस्वामिनि तद्दिवसे न ज्ञापनीयम् इत्याश्वलायनेनोक्तम् । “विदितम- प्पलीकं न तद् अहर्ज्ञापयेयु: ” इति [ आश्व ०२५.१४] | सर्वदापि अ- रिष्टराहित्यम् अनेन पदेन प्रार्थ्यते । सुभगा: शोभनभाग्योपेता भवत । इरावन्तः इरा अन्नं तद्वन्तः स्त | हसामुदाः । हसे हसने । भा- वे किए । तदन्तात् तृतीया हसेति । मोदते: इगुपधलक्षणः कः । “त- त्पुरुषे कृति बहुलम्" इति बहुलग्रहणात् तृतीयाया अलुक् हा- सेन मोदमानाः | गृहस्थितानां हासेन तदीय: संतोषोभिव्यज्यते । हा- साभिव्यक्तसंतोषा भवत । अतृष्या अक्षुध्या इत्यर्धर्वो व्याख्यातः ॥ सप्तमी ॥ इ॒हैव स्त॒ मानु॑ गात॒ विश्वा॑ रूपाणि पुष्यत । १ So P P J Cr. The word occurs again in XIV. 2 43 where also the MSs. do not read an avagralm. 1S' ससर्वदापि for सर्वदापि,