पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | ऐर्ष्यामि भ॒द्रेणा॑ स॒ह भूयसो भवता॒ मया॑ ॥ ७ ॥ इ॒ह । ए॒व । स्त॒ । मा । अनु॑ । गा॒त॒ । विश्वा॑ । रू॒पाणि॑ । पु॒ष्य । आ । ए॒ष्या॒ामि॒ । भ॒द्रेण॑ । स॒ह । भूयो॑सः । भ॒व । मया॑ ॥ ७ ॥ [अ० ६. सू० ६३.] ३७४ ४२७ अ एते: “मा- 66 विश्वा विश्वानि हे गृहाः इहैव अस्मिन् प्रदेश एव स्त भवत सुखिनो वर्तध्वम् । मा अनु गात प्रवसन्तं मां गृहस्वामिनं मानुगच्छत । ङि लुङ्” । 'इणो गा लुङि” इति गादेशः । सर्वाणि रूपाणि रूपवन्ति निरूप्यमाणानि वा पुत्रादीनि वस्तूनि पुष्यत समृद्धानि कुरुत । भद्रेण भन्दनीयेन धनेन सह ऐष्यामि पुनरागमि- प्यामि । ततः मया देशान्तरात पुनरागतेन अर्जितधनेन भूयांस: अ- तिमभूता भवत । ॐ भद्रेणा सह भवता मया इत्युभयत्र छान्दस : सांहितिको दीर्घः ॥ अष्टमी ॥ यद॑ने तप॑सा तप॑ उपत॒प्याम॑ह॒ तप॑ः । प्रियः श्रुतस्य॑ भू॒यास्मायु॑ष्मन्तः सु॒मे॒धसः॑ ॥ १ ॥ यत् । अ॒ग्ने॒ । तप॑सा । तप॑ः । उप॒ऽत॒प्याम॑हे । तप॑ । । प्रि॒यः । श्रु॒तस्य॑ । भू॒य॒स्मा॒ । आयु॑ष्मन्तः । सु॒ऽमे॒धस॑ः ॥ १ ॥ हे अग्ने तपसा तब संबन्धिना पर्युक्षणपरिसमूहनसमिदाधानादिरूपेण कर्मणा यत् तपो निर्वर्तयितव्यम् अस्ति तत् तपः उप त्वत्समीपे तप्या- महे आर्जयामः । या तपसा कृच्छ्रचान्द्रायणादिरूपेण यत् तपः तपनं शरीरक्लेशनम् । तप: क्लेशसहिष्णुत्वम्” इति हि तद्विदः । कृच्छ्रादिच- रणेन यच्छरीरशोषणं तत् तप उपतप्यामहे । तव समीपे परिचरणेन आर्जयाम इत्यर्थः । यद्वा तपसा । तप पर्यालोचने इत्यस्माद् अ सुन् । पर्यालोचनेन देवताविषयज्ञानेन । “मनसश्चेन्द्रियाणां चैकाय्यं तप उच्यते” इति हि तद्विदः । सहार्थे तृतीया । तेन त- पसा सहितं तपः कृच्छ्रचान्द्रायणादिरूपो नियमः । 'शौच संतोषतप:- १ AÊKKRVomit the visarga. We winl DSC. २PPJCr omit the visarga. 66