पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये स्वाध्यायेश्वरप्रणिधानानि नियमाः इति हि पातञ्जलं सूत्रम् [ पा° सू° २. ३२] । तत् तपः हे अग्ने त्वत्समीपे परिचरणेन तप्यामहे आर्जया- मः । * “तपस्तपः कर्मकस्यै” इति कर्मकर्तरि यगात्मनेपदे । तेन तपसा श्रुतस्य सम्यग् अधीतस्य वेदशास्त्रादेः प्रियाः प्रियतमाः सुहृदः निवासस्थानत्वेन प्रीणयितार: आयुष्मन्तः दीर्घकालजीविनः सुमेधसः शो- भनधारणाशक्तिसहिता भूयास्म ॥ नवमी ॥ ४२t " अग्ने॒ तप॑स्तय्यामह॒ उप॑ तप्यामहे॒ तर्पः । श्रु॒तानि॑ शृ॒ण्वन्तो॑ व॒यमायु॑ष्मन्तः सु॒मे॒धस॑ ॥ २ ॥ अग्ने॑ । तप॑ः । त॒प्या॒महे॒ । उप॑ । त॒प्या॒महे॒ । तप॑ । श्रु॒तानि॑ । शृ॒ण्वन्त॑ । व॒यम् । आयु॑ष्मन्तः । सु॒ऽमे॒धस॑ः ॥ २ ॥ तेन त- हे अग्ने तपस्तप्यामहे शरीरशोषणरूपं नियमम् आर्जयामः । किम् अन्यत्र | नेत्याह । उप तप्यामहे | तव समीप एव तादृशं तपः सा- धयाम इत्यर्थः । * पूर्ववत् कर्मकर्तरि यगात्मनेपदे । पसा श्रुतानि सम्यग् अधीतानि वेदशास्त्रादीनि शृण्वन्तः । त्वर्थे शतृप्रत्ययः । वेदशास्त्रश्रवणाडेतोः वयम् आयुष्मन्तः दीर्घका- लजीवनवन्तः सुमेधसः समीचीनधारणाशक्तियुक्ताश्च । भूयास्मेति शेषः ॥ दशमी ॥ अ॒यम॒ग्निः सत्प॑तिर्वृद्धवृ॑ष्णो र॒थीव॑ प॒तीन॑जयत् पु॒रोहि॑तः । नामा॑ पृथि॒व्या॑ां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां ये पृ॑त॒न्यव॑ ॥ १ ॥ । अ॒यम् । अ॒ग्निः । सऽप॑तिः । वृद्धऽवृ॑ष्णः । र॒थीऽइ॑व । पि॒तीन् । अ॒जयत् । पुरःऽहितः । नामा॑ । पृथि॒व्याम् । निऽहि॑तः । विद्युतत् । अ॒धःऽप॒दम् । कृणुताम् । ये । घृ॒त॒न्यवः॑ ॥ १ ॥ ? A K प॒त्नीन॑° changead 10 पत्तीन॑ DRP JC प॒त्नीन॑° P पत्न॰. We witle BK . V Cs.