पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ६४.] ३६३ सप्तमं काण्डम् | ४३५ शः । श्यावदन्तयुक्तेन पुरुषेण कुनखिना कुत्सितानि नखानि कु- नखानि तद्वता च वॅण्डेन । निर्वीर्य: पण्डो वण्ड इत्युच्यते । नपुंसकेन वा सह आर्शिम भुक्तवन्तः स्मः । अश भोजने । तस्य लिटि उत्तमबहुवचने रूपम् । अशनं व्यवहारमात्रोपलक्षणम् । एतैः सह व्यवहृतवन्तः स्म इति यद् अस्ति हे अपामार्ग त्वया साधनेन सर्वे तत् पापं वयम् अप मृज्महे अपमार्जयाम: निवारयामः ॥ सप्तमी ॥ यद्य॒न्तरि॑दो॒ यदि॒ वात॒ आस॒ यदि॑ वृक्षेषु॒ यदि॒ वोल॑पेषु । यद॑वन् पशवं उद्यमा॑नं तद् ब्राह्म॑णं पुन॑र॒स्मानुपैनु॑ ॥ १ ॥ यदि॑ । अ॒न्तरि॑क्षे । यदि॑ । वा॒ते॑ । आस॑ । यदि॑ । वृ॒क्षेषु॑ । यदि॑ । वा॒ा। उल॑पेषु । यत् । अश्र॑वन् । प॒शवः॑ । उ॒द्यमा॑नम् । तत् । ब्राह्म॑णम् । पुन॑ः । अ॒स्मान् । उ॒पऽऐनु॑ ॥ १ ॥ 1 । “ना- ८८ मन्त्रब्राह्मणात्मको हि वेदो मेघे वाताधिक्ये वृक्षच्छायायां हरितसस्य- संनिधौ पशोश्च समीपे नाध्येतव्यः । तथाध्ययने सम्यक् पठितोपि वेदो निर्वीर्यो भवति । तद् उक्तम् आपस्तम्बेन स्वाध्यायधर्मप्रकरणे । 'भ्रे न च्छायायां न पर्यावृत्त आदित्ये न हरितयवान् प्रेक्षमाणो न "ग्राम्यस्य पशोरन्ते नारण्यस्य नापाम अन्ते" [ आप ०१५.२१.६] इ- ति । अत्र तादृशकालस्थलेषु अधीतस्यापि वेदस्य वीर्यवत्त्वम् अनेन प्रा- ते । अन्तरिक्षे । मेघाच्छन्ने इति विशेषणसाहित्यं द्रष्टव्यम् । तादृशे अन्तरिक्षे यदि ब्राह्मणम् आस । कर्मविधायकं वाक्यं ब्राह्मणम् इत्यु- च्यते । एतद् मन्त्रस्यापि उपलक्षणम् । मन्त्रब्राह्मणात्मको वेदो यदि तत्राधीत आसीत् । मन्त्र (ह्मणयोर्वेदनामधेयम्” इति हि आपस्तम्बव- चनम् । यद्वा ब्राह्मणम् ब्रह्मणो ब्राह्मणस्य अध्येतव्यत्वेन संबन्धि । वेद- वाक्यम् इत्यर्थः । वाते वायौ । प्रभूते सतीति विशेषणं द्रष्टव्यम् । यदि आस ब्राह्मणम् अधीतम् आसीत् । अस्तेर्लिंटि भूभावाभावश्छा- 66 १ B यद॑सो॒ ° ABDKKRSVCSCr यदस्रं. We with gP J