पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ अथर्वसंहिताभाष्ये न्दसः । ण्वन् । यदि ब्राह्मणं वृक्षेषु वृक्षच्छायायाम आस । वाशब्दो विकल्पवाची । उलपेषु । उलपशब्दः सस्यमात्रोपलक्षणम् । यदि उल- पेषु ब्राह्मणम् अधीतम् आसीत् । तथा पशव: ग्राम्या आरण्याश्च उ- द्यमानम् अभिधीयमानम् अधीयमानं यद् ब्राह्मणम् अश्रवन् अशृ-

  • शृणोतेर्लङि सामान्यविहितः शबेब छन्दोविषयत्वाद् अव

स्थितः । उद्यमानम् इति । वद व्यक्तायां वाचि । कर्मणि यकि य जादित्वात् संप्रसारणम् । तत् तादृशेषु निमित्तेषु अधीतं ब्राह्म- णम् अस्मान् अधीतवतः पुनरुपैतु निषिद्धकालस्थलेषु अध्ययनेन अस्म- तो निक्रान्तं ब्राह्मणं पुनः वीर्यवत्वेन फलमदं सत् आगच्छतु ॥ अष्टमी ॥ पुन॒र्वैति॑न्द्रि॒यं पुन॑रा॒त्मा द्रवि॑ण॒ ब्रह्म॑णं च । पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒ाम क॑ल्पयन्तामि॒हैव ॥ १ ॥ पुन॑ः । मा॒ा । आ । ए॒तु । इ॒न्द्रि॒यम् । पुन॑ः । आ॒त्मा | द्रवि॑णम् । ब्रा- ह्म॑णम् । च । पुन॑ः । अ॒ग्नय॑ | धिण्या॑ । य॒था॒ऽस्या॒ाम । क॒ल्पयन्ताम् । इ॒ह । ए॒व ॥ १ ॥ 1 इन्द्रियम् इन्द्रेण दत्तं वीर्यम् । “इन्द्रियम् इन्द्रलिङ्गम्" इ- ति सूत्रेण इन्द्रियशब्दो निपातितः । यद्वा । * इन्द्रियम् इति जातावेकवचनम् । चक्षुरादीन्द्रियाणि | मा मां पुनरैतु पुनराग- च्छतु । आत्मा देहाभिमानी । पुनरैतु इत्यनुषङ्गः । द्रविणम प्रतिग्राह्यं धनम् । माम् ऐतु इत्यनुषङ्गः । तथा ब्राह्मणम् मन्त्रब्राह्मणात्मको वे- दश्च । पुनरैतु इति संबन्ध: तथा भिष्टया होत्रादिधिष्ण्येषु विहृता इहैव अस्मिन्नेव विहृतप्रदेशे यथास्थाम | यथास्थानम् इत्य- ॐ तिष्ठतेः आतो मनिन्”ु। अग्नयः र्थः । पुनः कल्पयन्ताम् स- मर्था: प्रवृद्धा भवन्तु ॥ नवमी ॥ सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देव॒ धाम॑सु॒ ।