पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥ १ ॥ सर॑स्वति । व्र॒तेषु॑ । ते॒ । दि॒व्येषु॑ । दे॒व । धाम॑ऽसु । जुषस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒व । र॒र्य॑स्व॒ । नः॒ः ॥ १ ॥ हे सरस्वति वर्णपदादिरूपेण प्रसरणवति हे देवि ते तब संबन्धिषु व्रतेषु कर्मसु दिव्येषु दिवि भवेषु देवार्हेषु वा धामसु स्थानेषु गार्हपत्या- दिरूपेषु । ऋधामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि इति हि यास्क: [नि०९.२] । तेषु स्थानेषु आहुतम् अभि- मुखं प्रक्षिप्तं हव्यम् होतव्यं हवि: जुषस्त्र सेवस्व । किं च हे देवि स रस्वति नः अस्मभ्यं प्रजाम प्रकर्षण जायमानां पुत्रादिरूपां ररास्त्र दे- हि । राते: “बहुलं छन्दसि इति शप: : । व्यत्ययेन आ- त्मनेपदम् ॥ अ० ६. सू. ७०.]३४५ दशमी ॥ इ॒दं ते॑ ह॒व्यं घृ॒तव॑त् सरस्वती॒दं पि॑तॄणां ह॒विरा॒स्य॑षु॒ यत् । इ॒मानि॑ त उदि॒ता शंत॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥ २ ॥ ४३७ - इ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒रस्व॒ति॒ । इ॒दम् । पि॒तॄणाम् । ह॒विः । आ- स्युम । यत् । इ॒मानि॑ ते॒ । उता | शम्ऽत॑मानि | तेभिः । व॒यम् । मधु॑ऽमन्तः । ' स्याम ॥ २ ॥ हे सरस्वति ते त्वदर्थे हूयमानं घृतवत् घृतोपेतं यद् इदं हव्यम् ह- विः । पितृणाम् । अर्थायेति शेषः । आस्यम क्षेपणीयम् । क्षेपणे असु ‘ऋहलोर्ण्यत्" । पित्रर्थे हूयमानं यद् इदं हविः । शं- तमानि अस्माकम् अत्यर्थ सुखकराणि यानि इमानि हवींषि हे सरस्वति ते त्वदर्थम् उदिता उदितानि उक्तानि । ॐ वद व्यक्तायां वाचि । अस्मात् कर्मणि निष्ठा । यजादित्वात् संप्रसारणम ४ । त्वदर्थम् उ क्तानि शंतमानि यानि इमानि हवींषि इति वा योज्यम् । एकत्र श्रुतो