पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३७ अथर्वसंहिताभाष्ये यच्छन्दः सर्वत्र संवध्यते । तृतीयपादे विभक्तिविपरिणामेन योज्यः । ते- भिस्तैः त्वदर्थं हुतैर्हविर्भिर्वयं मधुमन्तः मधुररसोपेतान्नवन्तः स्याम भवेम || [ इति ] षष्ठेनुवाके द्वितीयं सूकम् ॥ ८८ (C 'शिवा नः ” “ शं नो वातो वातु" इत्यनयोबृहद्गणे पाठात् शान्त्यु- दकाभिमन्त्रणादौ विनियोगः । शिवा नः [७.७१] शं नो वातो वातु [७.७२ ] अग्निं ब्रूमो वनस्पतीन्” [११.६] इति हि [कौ० १.९] सूत्रम् ॥ अभिचारकर्मणि 'यत् किं चासौ' इति पञ्चर्चेन मध्यमपलाशेन फ- "" लाकरणान् जुहुयात् ॥ • दर्शपूर्णमासयो: “परि लाग्ने पुरं वयम्" इत्यनया तण्डुलानां पर्य- झिकरणं कुर्यात् ॥ “ब्रह्मणा शुद्धाः [११.१.१६] इति तण्डुलान् परि लाग्ने पुरं वयम् [७. ७४ ] इति त्रिः पर्यनि करोति" इति हि कौशिकं सूत्रम् [ कौ ०१.२] ॥ सोमयागे माध्यन्दिनसवने धिष्ण्याग्निम् अवलोकयन् “परि लाग्ने पुरं वयम्” इति ब्रह्मा यजमानश्च जपेत् । धिष्ण्यम अवेक्ष्य परि त्वान इति जपति ब्रह्मा च” इति [वै०३.११] ॥ 66 66 तथा अग्निचयने उखार्थ परिलिख्यमानं मृत्पिण्डम् अनया ब्रह्मा अ नुमन्त्रयेत । “ परि त्वान इति मृत्पिण्डं परिलिख्यमानम्” इति वै- तानं सूत्रम् [वै० ५.१] ॥ सोमयागे प्रवर्ग्यं धर्मधुंग्दोहार्थम् उत्तिष्ठतः अध्वर्वादीन् “उत्तिष्ठताव घर्मदुग्दोहायोत्तिष्ठत उत्तिष्ठताव "" पश्यत इत्यनया ब्रह्मा अनुमन्त्रयेत । पश्यत्त इति वैतानं सूत्रम् [वै॰३.४] ॥ " 66 तत्र थमा ॥ शि॒वा नः शंत॑मा भव सुमृडीका सरस्वति । मा युयोम संहर्शः ॥ १ ॥ शि॒वा । नः॒ । शम्ऽत॑मा । भव । सु॒ऽमृडीका । स॒रस्व॒त । 1S' धर्मदुग्दाहा. 2So S. The aut Satra (od. Garhe and our own MSss. of it and the eomuneutary of Somàditya) has : घर्मदुग्धोहायो..