पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० अथर्वसंहिताभाष्ये षसः नः अस्माकं शम् सुखं यथा भवति तथा व्युच्छतु विवासिता: प्र- काशिता भवन्तु | उद्दी त्रिवासे ॥ तृतीया ॥ यत् किं चासौ मन॑सा॒ यच्च॑ वा॒ाचा य॒ज्ञैर्जुहोति॑ ह॒विषा॒ यजु॑षा । तन्मृत्युना नितिः संविदाना पुरा स॒त्यादाहु॑तं हन्त्वस्य ॥ १॥ यत् । किम् । च॒ । अ॒सौ । मन॑सा । यत् । च॒ । वा॒ाचा । य॒ज्ञैः । जु॒होति॑ । ह॒विषा॑ । यजु॑षा । तत् । मृत्युना॑ । निःऽत्र॑ति । स॒मऽवि॒द॒ाना । पु॒रा । स॒त्यात् । आऽहु॑तिम् । .. हुन्तु । अस्य ॥ १ ॥ । असौ । अदःशब्दो विप्रकृष्टवाची । दूरस्थः शत्रुः यत् किं च कर्म शत्रुहननरूपं मनसा । कर्तुं ध्यायतीत्यध्याहारः । यच्च कर्म वाचा । क- रोमीति वदतीत्यध्याहारः । तथा यज्ञैः अभिचारकर्मभिः हविषा तदु- चितेन द्रव्येण यजुषा मन्त्रेण जुहोति होमं करोति । अस्य प्रतिपक्षनि- वारणार्थं मनोवाक्कायैरुपायं कुर्वतः शत्रोः तत् मनसा ध्यातं वाचा उ- तं कर्म आहुतिम क्रियया निष्पाद्यमानं होमकर्म सत्यात् सत्यभूतात् कर्मफलात पुरा पूर्वमेव निरृतिः पापदेवता मृत्युना संविदाना ऐकमत्यं प्राप्ता सती हन्तु विनाशयतु । शत्रुणा करणत्रयेण अस्मद्विषये क्रियमा- णम् अभिचारकर्म यावत् फलप्रदं भवति तस्मात् पूर्वमेव मृत्युसहिता पा- पदेवता तं शत्रु विनाशयत्वित्यर्थः । Xसंविदानेति । संपूर्वाद् वेत्तेः 'समो गम्यृच्छि' ' इति आत्मनेपदम् ८८ ॥ चतुर्थी ॥ यातु॒धाना निति॒रा रस॒स्ते अ॑स्य प्र॒न्त्वनृ॒तेन॑ स॒त्यम् । इन्द्रेषिता दे॒वा आज्य॑म॒स्य मनन्तु मा तत् सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥ २ ॥ या॒तु॒ऽधाना॑ । निऽत्र॑तिः । आत् । ऊ॒ इति॑ । रक्ष॑ः । ते । अ॒स्य॒ । प्र॒न्तु । अनु॑तेन | सत्यम् ।