पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ अथर्वसंहिताभाष्ये पक्षिणाविव पृतन्यतः संग्रामेच्छो: पुरुषस्य आज्यम् घृतसाधनकं होमकर्म हताम् हिंस्ताम् । Xहन हिंसागत्योः । लोटि तसस्ताम् आदे- पृतन्यच्छब्दार्थम् आह । यः कश्च शत्रुः नः अस्माकम् अभ्यघायति अभिमुखं हिंसारूपं पापं कर्तुम् इच्छति तस्य आज्यं हताम् इति संबन्धः । अ अघशब्दात् " छन्दसि परेच्छायाम्" इति क्यचि अश्वाघस्यात्” इति आवम् ॥ षष्ठी ॥ अपा॑ञ्चौ त उ॒भौ ब॒ाहू अपि॑ नह्याम्या॒स्य॒मं । अ॒ग्नेर्दे॒वस्य॑ म॒न्युना तेन॑ तेवधिषं ह॒विः ॥ ४ ॥ अपा॑ञ्चौ । ते । उ॒भौ । बाहू इति॑ । अपि॑ । न॒ह्यामि॒ । आ॒स्यम् । अ॒ग्ने । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अव॒धि॒षम् । ह॒विः ॥ ४ ॥ । अनेन द्व्यूचेन शत्रुं संबोध्य ब्रूते । हे अस्मद्विषये अभिचारकर्त: ते तव उभौ बाहू होमकर्मणि व्याप्तौ पाणी अपाञ्चौ अपाञ्चनौ पृष्ठभागसं- बड़ौ अपि नह्यामि बनामि । यथा होमकरणशक्तौ न भवतः तथा क रोमि । तथा आस्यम् मन्त्रोच्चारणसमर्थ मुखम् अपि नह्यामि यथा व- दनात होमसाधनभूतमन्त्रा नोद्गच्छन्ति तथा करोमि । तेन बाह्वास्यबन्ध- नेन कारणेन देवस्य । * दीव्यतेर्विजिगीषार्थात् पचाद्यच् । देवस् विजयमानस्य अग्नेः मन्युना तेजसा क्रोधेन वा ते तव हविः होतव्यं द्र- व्यं तत्साधनकं कर्म अवधिषम् हनिष्यामि । X हन्तेश्छान्दसो लुङ् ॥ सप्तमी ॥ अपि नह्यामि ते बाहू अपि॑ नग़म्या॒स्य॑म् । अ॒ग्नेर्वो॒रस्य॑ म॒न्युना॒ तेन॑ तेवधिषं ह॒जिः ॥ ५ ॥ अपि॑ । नह्यामि । ते । बाहू इति । अपि॑ । नह्यामि । आस्यम् । अग्ने । घोरस्य॑ । म॒न्युना॑ । तेन॑ । ते | अवधिषम् । ह॒विः ॥ ५ ॥ १९ स्य॑न्. २ A B अपि corrected from अपं. Cr अर्पि changed to अपं. BDKK V Cs अपं. We with ABRPPJ.