पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ अथर्वसंहिताभाष्ये " त- "" ति च” इति पदसंज्ञया भसंज्ञाया बाधाद् ओर्गुणाभावः । भजेः कर्म- णि घञन्तो भागशब्दः । वातम् | हविःपरतया नपुंसकत्वम् । यदि स भागः श्रातः पक्कस्तर्हि जुहोतन इन्द्रार्थम् अग्नौ जुहुन । मनतनथनाश्च इति तस्य तनबादेशः । पित्त्वाद् गुण: तम् । अत्रापि हवि:परतया नपुंसकत्वम् । यदि अतः अपकस्त- हिं ममत्तन पचत | तप्तानाम् अपां मदन्तीशब्दव्यवहारदर्शनाद् अत्र ममत्तनेति शब्दस्य तप्तं कुरुतेत्यर्थो युक्तः । यद्वा यदि अपक्कस्तर्हि पाकप- र्यन्तं ममतन इन्द्रं स्तुतिभिर्मदयतेति । * श्रीज् पाके इत्यस्माद् नि- । Bा [ याम] ] "अपस्पृधेथाम् आनृचु : " इति सूत्रे श्राभावो निपात्यते ४ ॥ ० दशमी | ऋ॒तं ह॒विरो वि॑िन्द्र॒ प्र या॑हि ज॒गाम॒ सूरो अव॑नो॒ वि मध्य॑म् । परि॑ त्वास नि॒धिभिः॒ सखा॑यः कुल॒पा न वा॑जति चर॑न्तम् ॥ २ ॥ ऋ॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । म | गृ॒हि॒ । ज॒गाम॑ । सूर॑ । अ- ध्व॑नः । वि । मध्य॑म् । । परि॑ त्वा । आसते॒ । नि॒धऽभिः॑ । सखा॑यः । कुलऽपाः । न । ब्राजऽप- तिम् । चर॑न्तम् ॥ २ ॥ हे इन्द्र हवि: दधिघर्माख्यं त्वदीयं श्रातम् पकम् । ओ आ उ सु सुष्ठु प्रा याहि प्रकर्षेण शीघ्रम् आगच्छ । सूरः सूर्य: अध्वनः गन्त- व्यस्य मार्गस्य वि मध्यम् विकलं मध्यम ईषद् ऊनं मध्यभागं जगाम गतवान् । तव यागार्थं मध्याहो जात इत्यर्थः । सखायः समानख्याना ऋत्विजश्च निधिभिः निहितैः अभिषुत्य आसादितैः सोमैः सार्धं त्वा त् पर्यासते पर्युपासते । तत्र दृष्टान्तः । कुलपा न । कुलस्य वंशस्य र क्षकाः पुत्रा यथा ब्राजपतिम् ब्राजा गन्तव्या गृहास्तेषां पतिं चरन्तम् गच्छन्तम उपासते तथेत्यर्थः । व्रज गतौ । अस्मात् कर्मणि घञ् 1 “अजिव्रज्योश्च ” इति कुत्वनिषेधः ॐ ॥ [ इति ] षष्ठेनुवाके तृतीयं सूक्तम् ॥