पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ अथर्वसंहिताभाष्ये अतः श्रा पाके इत्यस्माद् आदा- । अत याम "अपस्पृधेथाम् इति सूत्रे श्राभावो निपात्यते । सुश्रुतम् सुपकम् इति मन्ये जाने । दिकान्निष्ठायां कर्मकर्तरि “शृतं पाके” इति निपात्यते एव तत् हवि: ऋतम् सत्यभूतं नवीय: नवतरं प्रत्यग्रतरं भवति । हे वज्रिन वज्रवन् हे पुरुकृत् बहुकर्मकृद् इन्द्र जुषाण : प्रीयमाणस्त्वं मा- ध्यन्दिनस्य मध्यन्दिने भवस्य सवनस्य सूयमानस्य सोमस्य संबन्धिनो दभः । X कर्मणि षष्ठी X । दधि दधिधर्माख्यं हविः पिब || द्वितीय समि॑द्धो अ॒ग्निर्वृषणा र॒थ दि॒वस्त॒प्नो धर्मो दु॑ह्यते वामि॒षे मधु॑ । व॒यं हि वौ पुरु॒दमा॑सो अश्विना॒ा हवा॑महे सध॒मादे॑षु का॒रव॑ः ॥ १ ॥ सम्ऽइ॑द्धः । अ॒ग्निः । वृषणा । र॒थी । दि॒वः । त॒प्तः । धर्मः । दु॒ह्यते । वा॒म् । इ॒षे । मधु॑ । वयम् । हि । वाम् । पुरु॒ऽदमा॑सः । अश्विना । ह॒वा॑महे । स॒ध॒ऽमादे॑षु । कारवः॑ः ॥ १ ॥ 66 एतदादीनाम् ऋचां प्रवर्ग्य एव लिङ्गानुसाराद् आश्वलायनेन विनि- योग उक्तः । तत्र इयम् उत्तरा च दुह्यते इति लिङ्गेन घर्मदुघादोहन- समये विनियुक्ते । हे वृषणा वृषणौ अभिमतफलस्य वर्षितारौ हे अ- श्विनौ दिवः धुलोकस्य । तात्स्थ्यात् नाच्छन्द्यम् छु । धुलो- कस्थितस्य देवगणस्य रथी रथिकः । नेतेत्यर्थः । 'अग्निमुखा वै दे- वा: ” इति श्रुतेः । तादृशोग्नि: समिद्ध: सम्यग् दीप्तः । तेनाग्निना घ- र्मः महावीरपात्रस्थम् आज्यं तप्तः सम्यक् पक्कम् । अनन्तरं वाम यु- वयोः । "युप्मच्छब्दस्य षष्ठीद्विवचने वाम् इत्यादेशः ॐ । यु- वयोः इषे अन्नाय मधु मधुररसोपेतं मधुवत् प्रीणनकारि वा पयः दु- ह्यते । गौरध्वर्युभिः इति शेष: । दुहेर्द्विकर्मकत्वाद् “अकथितं च ” इति अश्विना अश्विनौ वाम युवाम् । दुह प्रपूरणे । कर्मणि यक् । मधुनः कर्मत्वे द्वितीया X । हे X युष्मदो द्वितीयाद्विवचने वाम