पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । ४४७ [अ० ६. सू° ७७.] ३९२ आदेशः । पुरुदमास: । दम इति गृहनाम। बहुगृहा: । पृणाते: पुरुशब्द: । हविःपूर्णगृहा वा । कारदः स्तोतृनामैतत् । 2 करोतेः कृवापाजिमि इति [ उ०१.१] उण् प्रत्ययः । स्तुतिकर्तारो वयं हि वयं खलु होतार: सधमादेषु । सह माद्यन्ति देवा अत्रेति सधमा- दा यज्ञाः । माद्यते: अधिकरणे घञ् । 'सध मादस्ययोश्छन्द - सि” इति सहस्य सधादेश: । यज्ञेषु हवामहे आह्वयामः ॥ तृतीया ॥ 66 भ्याम् । 66 समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो वा॑ घ॒र्म आ ग॑तम् । दु॒ह्यन्ते॑ नूनं वृ॑षणे॒ह धे॒नवो॒ दसा॒ मद॑न्ति वे॒धस॑ः ॥ २ ॥ सम्ऽइ॑द्धः | अग्निः | अश्विना | ततः । वाम् | धर्मः । आ । गतम् । दु॒ह्यन्ते॑ । नूनम् । वृषणा॒ । इ॒ह । धे॒नव॑ः । । मद॑न्ति । वे॒धस॑ः ॥ २ ॥ हे अश्विना अश्विनौ अग्निः समिद्ध: संदीप्तः । तेन वाम युवा- Xxयुप्मच्छब्दस्य चतुर्थीडिवचने वाम् इति आदेशः । यु- वयोरर्थाय धर्मः महावीरस्थितम् आज्यं तप्तः सम्यग्दीप्तम् । अतः आ गतम् आगच्छतम् । घर्मरूपं हविर्भोक्तुम् इति शेषः । ॐ गमेश्छा- न्दसे लुङि “मन्त्रे घस" इति लेलुकि “अनुदात्तोपदेश ” इति अ नुनासिकलोपे रूपम् । लोटि वा विकरणस्य लुक् । हे वृषणा वृषणौ अभिमतफलस्य वतारौ युवयोरर्थाय इह प्रवर्ग्याख्ये कर्मणि धे- नवः प्रीणयित्र्यो गावो नूनम् अत्यर्थ दुह्यन्ते पयः । * दुहेर्द्विकर्म- कत्वात् पय इति कर्मणा अन्येन भाव्यम् । अतः दस्रा दस्रौ श- त्रूणाम् उपक्षपयितारौ अश्विनौ वेधसः । अविध विधाने इत्यस्माद् असुन् । स्तुत्या परिचरन्तो होतार: मदन्ति मदयन्ति । स्तुति- भिरिति होतॄणां परोक्षेण अभिधानम् | * माद्यतेर्णिचि “मदी ह- र्षग्लपनयो: " इति मिचेन स्वत्वम् । “छन्दस्युभयथा” इति झे: आ- र्धधानुकत्वेन णिलोपः ॥ चतुर्थी ॥ स्वाहा॑कृतः शुचिर्दे॒वेषु॑ य॒ज्ञो यो अ॒श्विनो॑श्चम॒सो दे॑व॒पाः ।