पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तमु॒ विश्वे॑ अ॒मृता॑सो जुषा॒णा ग॑न्धर्वस्य॒ प्रत्या॒ास्ना रि॑िहन्ति ॥ ३ ॥ स्वाहा॑ऽकृ॒तः । शुचिः । दे॒वेषु॑ । य॒ज्ञः । यः । अ॒श्विनो॑ः । च॒म॒सः । दे॒व॒ऽपान॑ः । तम् । ऊ॒ इति॑ । विश्वे॑ । अ॒मृता॑सः । जुषा॒णाः । ग॒न्ध॒र्वस्य॑ | प्रति॑ । आ॒स्त्रा | रिहन्त ॥ ३ ॥ ४४८ स्वाहाकृतः इति लिङ्गाद् धर्मयागानन्तरम् इयं पठनीयेति आश्वलाय- नेनोक्ता | शुचिः दीप्तो यज्ञः प्रवर्ग्याख्यो देवेषु अश्विप्रभृतिषु । अथ वा देवशब्देन अश्विनावुच्येते । प्रवर्ग्यं तयोरेव यष्टव्यत्वात् । ॐ बहुवचनं नु पूजायाम् | विषयसप्तमी । देवविषये स्वाहाकृतः । स्वाहाशब्दो दानवाचकः । दत्त इत्यर्थः । न चात्र स्वाहाकारेण हविहूयते किं तु वषट्कारेण | देवपान: देवौ अश्विनौ पिवतः अत्रेति देवपानः | अ- तादृशः अश्विनोश्चमसः । चमतेर्भक्षणार्थाद धिकरणे युद्ध | औणादिक: असप्रत्ययः । भक्षणसाधनो य उपयमनाख्यः पात्रवि- शेषोस्ति तमु तमेव चमसं विश्वे सर्वे अमृतास: अमृता: अमरणधर्माणो देवा अन्यादयो जुषाणा: प्रीयमाणाः । X हेत्वर्थे जुषेः शानच् प्र- त्ययः । प्रीतो: गन्धर्वस्य । गां वेदरूपां वाचं धारयतीति ग- न्धर्वः आदित्यः । तथा च तैत्तिरीयके आदित्यस्य वेदसाहित्यं श्रूयते । 'ऋग्भिः पूर्वाले दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अद्भुः । सा- मवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः” इति [तै० ब्रा० ३. १२.९.१] । X गोशब्दोपपदाद् धृञो “गवि गं धृञो वः इति वप्रत्ययः गोशब्दस्य गम इत्यादेशः । तस्यादित्यस्य | रात्रावादि- 66 "" त्यस्य अनावनुप्रवेशात् तदभेदेन अग्निर्वा गन्धर्वः । तस्य आस्ना आ- “पद्दन्न : ० " इत्यादिना आस्यशब्दस्य आसन आदेशः । प्र- स्थेन । ति रिहन्ति प्रत्येकं लिहन्ति आस्वादयन्ति । " त्वामन आदित्यास आ- स्यम्” इति हि [ ऋ० २.१.१३] मन्त्रवर्णे अग्निरूपेण आस्येन देवा हविर्भक्षयन्तीति स्पष्टम् आम्नातम् ॥ १ P अम्ना. 1 S inserts उपय after चमसः.