पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू' ७७.]३९२ सप्तमं काण्डम् | पञ्चमी । यदु॒स्त्रिया॒स्वाहु॑तं घृ॒तं पयो॒यं स वा॑भश्विना भाग आ ग॑तम् । माध्वी॑ धर्तारा विदयस्य सत्पती तप्तं धर्म पिबतं रोच॒ने दिवः ॥ ४ ॥ यत् । उ॒स्त्रिया॑सु । आऽहु॑तम् । घृ॒तम् । पर्यः । अ॒यम् । सः । वाम् । अ॒- । श्विना । भागः । आ । गतम् । माध्वी॒ इति॑ । धरा॒ । वि॒द॒स्य॒ | स॒त्पती इत सतऽपती । त॒प्तम् । घ- र्मम् । पिबतम् । रोचने । दि॒िवः ॥ ४ ॥ ८८ ४४९ 66 एषा ऋक् पिबतम् इति लिङ्गाद् धर्मयागे याज्यात्वेन आश्वलायनेन विनियुक्ता । उस्रियासु । गोनामैतत् । पयोनिवासस्थानभूतासु गोषु व- र्तमानं घृतम् घृतवत् क्षरणशीलं घृतोत्पादकं वा यत् पयः क्षीरम आहु- तम् महावीरपात्रे अभिमुखं प्रक्षिप्तम् । 2 हु दानादानयोः । क- र्मणि निष्ठा । हे अश्विना अश्विनौ सोयं तद् इदं प्रक्षिप्तं प यः । प्रभागविशेषणत्वात् तदिदंशब्दयोः पुंलिङ्गता । निर्दिश्यमा- 'नप्रतिनिर्दिश्यमानयोरेकत्वम् आपादयन्ति सर्वनामानि पर्यायेण तलिङ्ग- “ताम् उपाददते” इति वचनात् । इदं तत् पयः वाम् युवयोर्भा- गः भजनीयोंशः । अतः आ गतम् आगच्छतम् । आगत्य च हे मा- ध्वी । मधुशव्दाद् अणि स्त्रियाम् ॠत्व्यवास्त्व्य वास्त्वमाध्वीहिर- ण्ययानि च्छन्दसि” इति यणांदेशो निपात्यते । मधुसंबन्धिनी वि द्या माध्वी । विद्यावेदित्रोरभेदोपचाराद् अश्विनावपि माध्वीशब्देन उच्ये- ते । अत एव प्रगृह्यता । 'माध्वी मम श्रुतं हवम्" इति हि मन्त्रा- न्तरम् [ऋ° ५.७५.१] । अश्विनोर्मधुविद्यावेदितृत्वं दाशतय्याम आम्ना- आथर्वणायाश्विना दधीचेश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्र वोचद् ऋतायन्” इति [ऋ० १.११७.२२] | हे माध्वी मधुविद्या- वेदितारौ विदयस्य । यज्ञनामैतत् । विदन्ति जानन्ति अनेन फलम् इति विदयो यज्ञः । तस्य धर्तारा धर्तारौ धारयितारौ ।' यज्ञस्वरूपनिर्वर्तका- 1S' उकर्ण (for उवर्ण?) लोपो for यणांदेशो, which is conjeetaral emendation. 66 66 यते ।