पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ अथर्वसंहिताभाष्ये राजति विशेषेण दीप्यते । उपसोनन्तरं सूर्यः प्रादुर्भवतीत्यर्थः । तथा च आम्नातम् अन्यत्र । 'सूर्यो देवीम् उषसं रोचमानां मर्यो न योषाम अभ्येति पश्चात्” इति [ऋ०१,११५.२] । यस्माद् उदितः सूर्यः यु- लोकं स्वतेजसा प्रकाशयति अतः पयसा सह आगच्छ । आगत्य तत् पय: घर्मे आसिञ्च इति होता अध्वर्यु ब्रूते ॥ अष्टमी ॥ उप॑ ह्वये सु॒दुर्घौ धे॒नुमे॒तां सु॒हस्त गोधुगुत ददा॑हदेनाम् । श्रेष्ठ॑ स॒वं स॑वि॒ता सा॑विषन्ना॑नो॒भीडो घ॒र्मस्तदु॒ षु प्र॑ वो॑चत् ॥ ७ ॥ उप॑ । हृये॒ । सु॒ऽदुया॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्त॑ः । गो॑णो॒ऽधुक् । उ॒त । दोह॒त् । ए॒नाम् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । साविषत् | नः । अ॒भिऽइ॑द्धः । घ॒र्मः । तत् । ऊं इति॑ । सु । प्र । वोचत् ॥ ७ ॥ 66 एषा ऋक् उप ह्वये इति लिङ्गाद् दोहार्थं धर्मदुघाह्वाने विनियुक्ता । सुदुघाम दोग्धुं सुशकाम् । & दोग्धेः “ईषद्दुःसुषु” इति खल् प्रत्य- यः । हंकारस्य धकारोपजनश्छान्दसः । एतां पुरोवर्तिनीं धेनुम् उप ह्वये आह्वयामि । ह्वयते: “निसमुपविभ्यो ह्वः” इति आ- त्मनेपदम् । उत अपि च एनाम आहूतां धेनुं सुहस्त: कल्या- णहस्त: गोधुक् गोर्दोग्धा अध्वर्यु: दोहन दोग्धु । * दुहेः पञ्चमलकारे “लेटोडाटौ” इति अडागमः । श्रेष्ठम् प्रशस्यतमम् । स्यस्य श्रः" इति श्रादेशः ८८ "प्रश- । सवम् । सूयते प्रेर्यत इति सवः प यः । X एष हि श्रेष्ठः [ सर्वेषां ] सवानां यद् उदकं यद् वा पय इ- ति हि यास्क: [नि०११.४३] षू प्रेरणे इत्यस्मात् “जवसवौ छन्दसि” इति अच् प्रत्ययः । तं सवं सविता सर्वस्य प्रेरको देवः नः अ- स्माकं साविषत् प्रेरयतु । 99 षू प्रेरणे | अस्मात् लेटि "सिबहुलम्' १ Sप्र वो. २P°हस्ताः 1S' खकारस्य. ८