पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये दशमी ॥ जुष्ट॑ो दमू॑ना॒ अति॑थिर्दुरोण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने अभियुजो॑ वि॒त्य॑ शत्रूयतामा भ॑रा भोज॑नानि ॥ ९ ॥ जुष्ट॑ः । दमू॑नाः । अति॑थिः । दु॒रोणे । इ॒मम् । नः॒ः । य॒ज्ञम् । उप॑ । य॒हि॒ । विद्वान् । विश्वा॑ः । अ॒ग्ने॒ । अ॒भि॒ऽयुज॑ः । वि॒ऽह॑त्य॑ । शत्रुऽय॒ताम् । आ । भर । भो- ज॑नानि ॥ ९ ॥ ४५४ द- हे अग्ने जुष्टः प्रीतः सर्वैः सेव्यमानो वा दमूना: दान्त[मनाः ] । ममना वा दानमना वा [ दान्तमना वा ] इति यास्क: ४] ४ । [नि० ४. तादृशः अतिथि: अतिथिवत् पूज्य: । यद्वा दुरोणे अ- तिथिरिति संबन्धः । दुरोण इति गृहनाम दुरवा भवन्ति दु- स्तर्पाः इति हि निरुक्तम् [नि०४, ५]४ । सर्वेषु यज्वगृहेषु अ- तिथि: अतनशीलः विद्वान् जानन् मदीयां त्वद्विषयभक्तिं जानन् नः अस्मदीयम् इमं यज्ञम् उप याहि समीपे आगच्छ । आगत्य च हे अग्ने विश्वाः सर्वाः अभियुजः अभियोक्त्रीः परसेना विहत्य विशेषेण हत्वा शत्रूयताम शत्रून् आत्मन इच्छतां परेषां भोजनानि भुज्यमानानि ध- नानि आ भर आहर । अस्मभ्यम् इति शेषः । ४“हृग्रहोर्भः इति हरतेर्हकारस्य भकार: । शत्रूयताम् इति । शत्रुशब्दात क्यचि “अ- कृत्सार्वधातुकयो: ० " इति दीर्घः ॐ ॥ एकादशी ॥ "" अग्ने॒ शर्म॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त॒मानि॑ सन्तु । ' सं जा॑स्पत्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑िष्ठ॒ा महो॑सि ॥ १० ॥ अग्ने॑ । शर्म॑ । मह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त॑ऽत॒मानि॑ । स॒न्तु॒ । सम् । जा॒ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णुष्व॒ । श॒त्रुऽय॒ताम् । अ॒भि । - छ । महाँसि ॥ १० ॥ १ °हन्यं. २ उत्तं. We with P J Cr.