पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ४५६ शब्दादपि उत्पन्न: । सर्वदा तृणं घासम् अद्धि भक्षय । द भक्षणे | लोटि “हुझल्भ्यो हेर्धि: "। तथा आचरन्ती सर्व- तश्चरन्ती त्वं शुद्धम निर्मलम् उदकं पिब च ॥ चतुर्थ सूक्तम ॥ इत्यथर्वसंहिताभाष्ये वेदार्थप्रकाशे सप्तमकाण्डे षष्ठोनुवाकः ॥ सप्तमेनुवाके त्रीणि सूक्तानि । तत्र “अपचिताम्" इति आद्ये सू- क्ते प्रथमाभ्याम् ऋग्भ्यां प्रत्यृचं गण्डमालाभैषज्यार्थं सूत्रोक्तलक्षणेन ध- नुषा शरेण च गण्डमालां विध्येत् ॥ तथा तस्मिन्नेव कर्मणि कृष्णोर्णास्तुकावज्वालितम् उदकम् आभ्याम् अभिमन्त्र्य उषःकाले व्याधितम् अवसिञ्चेत् ॥ 66 सूत्रितं हि । “अपचिताम् इति वैणवेन दार्भूषेण कृष्णोर्णाज्येन" इ- त्यादि [ कौ॰४, ४] ॥ ईर्ष्याविनाशकर्मणि “वाणाहम्" इत्येनाम् ईर्ष्यावन्तं दृष्ट्वा जपेत् ॥ तथा ईर्ष्यावते अनया सक्कुमन्थम अभिमन्य दद्याद् ईर्ष्यावन्तं स्पृष्ट्वा वा जपेत् ॥ तद् उक्तं संहिताविधौ । “वाणाहम् इति प्रतिजापमदानाभिमर्श- नानि ” इति [ कौ० ४.१२] ॥ 66 66 दर्शपूर्णमासयोः व्रतोपायने “व्रतेन त्वं व्रतपते " इत्येषा विनियुक्ता | 'व्रतम् उपैति व्रतेन त्वं व्रतपते” इति हि कौशिकं सूत्रम् [ कौ०१.१]॥ 'प्रजावती: " इति द्व्यचस्य गोपुष्टिकर्मणि विनियोग उक्तः ॥ “आ सुखस: ” इति द्वाभ्यां गण्डमालाभैषज्यकर्मणि शङ्खं घृष्ट्वा अ- भिमन्त्र्य शुनकलालां वा अभिमन्य गण्डमालां प्रलिम्पेत् || तथा तत्रैव कर्मणि अनेन ब्यूचेन जलूकां गृहगोधिकां वा अभिमन्य रुधिरमोक्षार्थ गण्डमालास्थाने संश्लेषयेत् ॥ तथा तत्रैव कर्मणि सैन्धवलवणं चूर्णयित्वा अनेन व्यचेन अभिमन्य गण्डमालास्थाने विकीर्य तूष्णीं निष्ठीवेत् ॥ 1$' दाभूषेण वा. Kunsika: दायूषेण कृष्णा.