पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये रणभूतसामर्थेन । तदात्मना भावितेन शरेणेत्यर्थः । तेन शरेण अहं प्र- योक्ता विध्यामि विदारयामि । यद्वा मुनेर्देवस्य इति पदइयेन शरप्रकृति- भूतो वृक्षविशेष उच्यते । मुनेर्मननीयस्य स्तुत्यस्य देवस्य देवरूपस्य वन- स्पतेः । तस्य देवतात्मकत्वम् 'अञ्जन्ति त्वाम् अध्वरे देवयन्तः " [ ऋ० 66 ४५७ ३.४.१] इत्यादिषु स्पष्टम् अवगम्यते । तस्य मूलेन मूलवत् सारभूतो यो वृक्षस्यांशस्तनिर्मितेन मूलप्रदेशनिर्मितेन वा शरेण विध्यामि । अथ वा मुनेर्देवस्य इति पदइयेन धनुःप्रकृतिभूतो वेणुदार्भूषसंज्ञको वृक्ष उ च्यते । तस्य मूलेन सामर्थ्याधायकेन शरेण विध्यामीति संबन्धः । अ- धिज्यस्य हि धनुषः सामर्थ्यम् इषुविसर्जनेन गम्यते इति तस्य मूलभूतः शर इत्युक्तम् । केचिद् आहुः । मुनेः मन्युमतः देवस्य । व्यतेर्विजिगीषार्थात् पचाद्यच् । विजयमानस्य क्रोधवतः क्रूरस्य । दी- रुद्रस्य इत्यर्थः । तस्य मूलेन प्रधानभूतवीर्यरूपेण शत्रून्मूलनसाधनेन वा शरेण विध्यामि । गण्डमालावेधनसाधनभूतोयं शरः लौकिकः शरो न भवति किं तु असुरपुरनिर्भेदकस्य रुद्रस्य संबन्धी शरोयम् इति लौकि- कशरस्य रुद्रशरात्मना भावनम् इति । रुद्रस्य पुरनिर्भेदनार्थम् इषुवि- सर्जनं तैत्तिरीये समाम्नायते । “त इषुं समस्कुर्वत । अग्निम् अनीकं “सोमं शल्यं विष्णुं तेजनम् । तेब्रुवन् क इमाम असिष्यतीति । रुद्र इत्यब्रुवन् । रुद्रो वै क्रूरः । सोस्यनु” इति [तै० सं० ६.२.३.१] । एतद् उक्तं भवति । पापदेवतानिष्पादिता गण्डमाला अहं भैषज्यकर्ता लौकिकेन शरेण न विध्यामि किं तु रुद्रस्य शरेणेति ॥ द्वितीया ॥ विध्या॑म्यास प्रथ॒मा॑ विध्या॑म्युत म॑ध्य॒माम् । इ॒दं ज॑ष॒न्या मासामा च्छिा स्तुकमिव ॥ २ ॥ विध्या॑मि । आ॒सम् । प्र॒थ॒माम् । विध्या॑मि । उ॒त । मध्यमाम् । इ॒दम् । जघन्याम् । आ॒साम् । आ । द्वि॒िन॒द्म । स्तु॒म्ऽइव ॥ २ ॥ दोषमकर्षसाम्याल्पवभेदेन गण्डमालास्त्रिविधाः | तासाम् अपसारणम् 66 1S' अंजति.